SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं- उद्देशकः - १३ वृ. इहाद्यश्रुतस्कन्धस्य गाथाषोडशक इतिनाम, गाथाख्यंषोडशमध्ययनं यस्मिन् श्रुतस्कन्धे सतथेति, तत्रगाथाया नामस्थापनाद्रव्यभावरूपश्चतुर्विधो निक्षेपः, नामस्थापनेप्रसिद्धे, द्रव्यगाथा द्विधा-आगमतोनोआगमतश्च, तत्रआगमतो ज्ञाता तत्रचानुपयुक्तः अनुपयोगोद्रव्य'मितिकृत्वा, नोआगमतस्तु त्रिधा-ज्ञशरीरद्रव्यगाथा भव्यशरीरद्रव्यगाथा ताभ्यां विनिर्मुक्ताच॥१॥ “सत्तट्ठतरू विसमे ण से हया ताण छट्ट नह जलया। गाहाए पच्छद्धे भेओछट्टोत्ति इक्ककलो।" इत्यादिलक्षणलक्षिता पत्रपुस्तकादिन्यस्तेति, भावगाथापिद्विविधा-आगमनोआगमभेदात्, तत्राऽऽगमतो गाथापदार्थज्ञस्तत्र चोपयुक्तः, नोआगमतस्त्वंदमेव गाथाख्यमध्ययनम्, आगमैकदेशत्वादस्य । षोडशकस्यापि नामस्थापनाद्रव्यक्षेत्रकालभावभेदात्षोढा निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यषोडशकं ज्ञशरीरभव्यशरीरविनिमुक्तिं सचित्तादिनि षोडश द्रव्याणि, क्षेत्रषोडशकंषोडशाकाशप्रदेशाः, कालषोडशकंषोडशसमयाः एतत्कालावस्थायिवा द्रव्यमिति, भावषोडशकमिदमेवाध्ययनषोडशकं, क्षायोपशमिकभाववृत्तित्वादिति । श्रुतस्कन्धयोः प्रत्येक चतुर्विधो निक्षेपः, स चान्यत्र न्यक्षेण प्रतिपादित इति नेह प्रतन्यते ॥ साम्प्रतमध्ययनानां प्रत्येकमर्थाधिकारं दिदर्शयिषयाऽऽहनि. [२४] ससमयपरसमयपरुवना य नाऊण बुज्झणा चेव । संबुद्धस्सुवसग्गा थीदोसवित्रणा चेव ॥ नि. [२५] उवसग्गभीरुणो थीवसस्स नरएसु होज उववाओ। एव महप्पा वीरो जयमाह तहा जएज्जाह ।। नि. [२६] परिचत्तनिसीलकुसीलसुसीलसविग्गसीलवंचेव । ___ नाऊण वीरियदुगंपंडियवीरिए पयट्टेइ॥ नि. [२७] धम्मो समाहि मग्गो समोसढा चउसु सव्ववादीसु। सीसगुणदोसकहणा गंथंमि सदा गुरुनिवासो॥ नि. [२८] आदानिय संकलिया आदानीयंमि आदयचरित्तं । ___ अप्पग्गंथे पिंडियवयणेणं होइ अहिगारो॥ वृ.तत्र प्रथमाध्ययने स्वसमयपरसमयप्ररूपणा, द्वितीयेस्वसमयगुणान् परसमयदोषांश्च ज्ञात्वा स्वसमय एव बोधो विधेय इति, तृतीयाध्ययने तु संबुद्धः सन् यथोपसर्गसहिष्णुर्भवति तदभिधीयते, चतुर्थे स्त्रीदोषविवर्जना, पञ्चमे त्वयमाधिकारः, तद्यथाउपसर्गासहिष्णोः स्त्रीवशवर्तिनोऽवश्यं नरकेषूपपात इति, षष्ठे पुनः। _ एवमिति' अनुकूलप्रतिकूलोपसर्गसहनेन स्त्रीदोषवर्जनेन च भगवान् महावीरोजेतव्यस्य कर्मणः संसारस्य वा पराभवेन जयमाह ततस्तथैव यलं विधत्त यूयमिति शिष्याणामुपदेशो दीयते सप्तमे त्विदभिहितं, तद्यथा-निशीला-गृहस्थाः कुशीलास्तु-अन्यतीर्थिकाः पार्श्वस्थादयो वातेपरित्यक्ता। येन साधुनास परित्यक्तनिशीलकुशील इति, तथा सुशीला-उद्युक्तविहारिणः संविग्नाः-संवेगमग्रास्तत्सेवाशीलः शीलवान् भवतीति, अष्टमे त्वेतप्रतिपाद्यते, तद्यथा-ज्ञात्वा वीर्यद्वयं पण्डितवीर्ये प्रयत्नो विधीयत इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy