SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १५४ सूत्रकृताङ्ग सूत्रम् १/५/२/३५१ रिणामसुमता तिर्यङ्मनुष्यामरेष्वपि 'चतुरन्तं' चतुर्गतिकम् 'अनन्तम्' अपर्यवसानं तदनुरूपं विपाकं ‘स' बुद्धिमान् सर्वमेतदिति पूर्वोक्तया नीत्या 'विदित्वा' ज्ञात्वा 'ध्रुवं' संयममाचरन् 'कालं' मृत्युकालमाकांक्षेत्। ___एतदुक्तं भवति-चतुर्गतिकसंसारान्तर्गतानामसुमतांदुःखमेव केवलं यतोऽतोध्रुवो-मोक्षः संयमो वा तदनुष्ठानरतो यावज्जीवंमृत्युकालं प्रतीक्षेतेति, इति परिसमाप्तौ, ब्रवीमीतिपूर्ववत्॥ अध्ययनं-५ उद्देशकः-२ समाप्तः अध्ययनं-५ समाप्तम् मुनि दीपरत्न सागरेण संशोधिता सम्पादिता शीलाझाचार्यविरचिता प्रथम श्रुत स्कन्धस्य पंचमअध्ययन टीका परिसमाप्ता (अध्ययनं-६ “वीरस्तुति" वृ.उक्तंपञ्चममध्ययनं, साम्प्रतंषष्ठमारभ्यते, अस्य चायमभिसम्बन्धः-अत्रानन्तराध्ययने नरकविभक्ति प्रतिपादिता, सा च श्रीमन्महावीरवर्धमानस्वामिनाऽभिहितेत्यतस्तस्यैवानेन गुणकीर्तनद्वारेण चरितं प्रतिपाद्यते शास्तुर्गुरुत्वेन शास्य गरीयस्त्वमितिकृत्वा, इत्यनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि, तत्राप्युपक्रमान्तर्गतोऽधिकारो महावीरगुणगणोत्कीर्तनरूपः। निक्षेपस्तु द्विधा-ओघनिष्पन्नो नामनिष्पन्नश्च, तत्रौधनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने तु महावीरस्तवः, तत्र महच्छब्दस्य वीर इत्येतस्य च स्तवस्य च प्रत्येकं निक्षेपो विधेयः, तत्रापि 'यथोद्देशस्तथा निर्देश' इतिकृत्वा पूर्वं महच्छब्दो निरूप्यते, तत्रास्त्ययं महच्छब्दो बहुत्वे, यथामहाजन इति, अस्ति बृहत्त्वे, यथा-महाघोषः, अस्त्यत्यर्थे, यथा-महाभयमिति, अस्ति प्राधान्ये यथा महापुरुष इति, तत्रेह प्राधान्ये वर्तमानो गृहीत इत्येतनियुक्तिकारो दर्शयितुमाहनि. [८३] पाहन्ने महसदो दव्वे खेत्तेय कालभावे य। वीरस्स उ निक्खेवो चउक्कओ होइ नायव्वो॥ वृ. तत्र महावीरस्तव इत्यत्र यो महच्छब्दः स प्राधान्ये वर्तमानो गृहीतः, तच्च नामस्थापनाद्रव्यक्षेत्रकालभावभेदात्षोढा प्राधान्यं, नामस्थापने क्षुण्णे, द्रव्यप्राधान्यं ज्ञशरीरभव्यशरीरव्यतिरिक्तं सचित्ताचित्तमिश्रभेदात् त्रिधा, सचित्तमपि द्विपदचतुष्पदापदभेदात् त्रिधैव, तत्र द्विपदेषुतीर्थकरचक्रवर्त्यादिकं चतुष्पदेषुहस्त्यश्वादिकमपदेषुप्रधानं कल्पवृक्षादिकं, यदिवाइहैवये प्रत्यक्षारूपरसगन्धस्पर्शेरुत्कृष्टाः पौण्डरीकादयः पदार्थाअचित्तेषुवैडूर्यादयो नानाप्रभावा मणयो मिश्रेषु तीर्थकरो विभूषित इति, क्षेत्रतः प्रधाना सिद्धिधर्मचरणाश्रयणान्महाविदेहं चोपभोगाङ्गीकरणेन तुदेवकुर्वादिकं क्षेत्रं, कालतः प्रधानं त्वेकान्तसुषमादि, यो वा कालविशेषो धर्मचरणप्रतिपत्तियोग्य इति, भावप्रधानं तु क्षायिको भावः तीर्थकरशरीरापेक्षयौदयिको वा, तत्रेह द्वयेनाप्यधिकार इति। वीरस्य द्रव्यक्षेत्रकालभावभेदाञ्चतुर्धानिक्षेपः, तत्र ज्ञशरीरभव्यशरीरव्यतिरिक्तोद्रव्यवीरो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy