________________
श्रुतस्कन्धः - १, अध्ययनं ५, उद्देशकः - २
१५३
‘स्पृशन्ति’दुःखयन्ति ‘निरन्तरम्' अविश्रामं ‘अच्छिनिमीलय' मित्यादिपूर्ववत् 'तत्र' तेषु नरकेषु चिरं-प्रभूतं कालं स्थितिर्यस्य बालस्यासौ चिरस्थितिकस्तं, तथाहि
रत्नप्रभायामुत्कृष्टा स्थिति सागरोपमं, तथा द्वितीयायां शर्करप्रभायां त्रीणि, तथा वालुकायं सप्त, पङ्कायां दश, धूमप्रभायां सप्तदश तमः प्रभायां द्वाविंशतिर्महातमः प्रभायां सप्तमपृथिव्यां त्रयस्त्रिंशत्सागरोपमाणि उत्कृष्टा स्थितिरिति, तत्र च गतस्य कर्मवशापादितोत्कृष्टस्थितिकस्य परैर्हन्य- मानस्य स्वकृतकर्मफलभूजो न किञ्चित्त्राणं भवति, तथाहि
किल सीतेन्द्रेण लक्ष्मणस्य नरकदुःखनुभवतस्तत्राणोद्यतेनापि न त्राणं कृतमिति श्रुति, तदेवमेकः-असहायो यदर्थं तत्पापं समर्जितं तै रहितस्तत्कर्मविपाकजं दुःखमनुभवति, न कश्चिद्दुखसंविभागं गृह्णातीत्यर्थः, तथा चोक्तम् :
—
119 11
“मया परिजनस्यार्थे कृतं कर्म सुदारुणम् । एकाकी तेन दह्येऽहं गतास्ते फलभोगिनः ॥ -इत्यादि । किञ्चान्यत्
मू. (३४९) जंजारिसं पुव्वमकासि कम्मं, तमेव आगच्छति संपराए । एतदुक्कं भवमज्जणित्ता, वेदंति दुक्खी तमनंतदुक्खं ॥
वृ. 'यत्' कर्म 'याद्दशं' यदनुभावं याद्दकस्थितिकं वा कर्म 'पूर्वं' जन्मान्तरे 'अकार्षीत्' कृतवांस्तत्ताद्दगेव जघन्यमध्यमोत्कृष्टस्थित्यनुभावभेदं 'सम्पराये' संसारे तथा तेनैव प्रकारेणानुगच्छति, एतदुक्तं भवति-तीव्रमन्दमध्यमैर्वन्धाध्यवसायस्थानैर्याध्शैर्यद्बद्धं तत्ताध्गेव तीव्रमन्दमध्यमेव विपाकम्-उदयमागच्छतीति ।
एकान्तेन-अवश्यं सुखलेशरहितं दुःखमेव यस्मिन्नरकादिके भवे स तथा तमेकान्तदुःखं ‘भवमर्जयित्वा' नरकभवोपादानभूतानि कर्माण्युपादायैकान्तदुःखिनस्तत्-पूर्वनिर्दिष्टं दुःखम्असातवेदनीयरूपमनन्तम्-अनन्योपशमनीयमप्रतिकारं 'वेदयन्ति' अनुभवन्तीति ॥ मू. (३५०) एताणि सोञ्चा नरगाणि धीरे, न हिंसए किंचण सव्वलोए । एतदिट्ठी अपरिग्गहे उ, बुज्झिज्ज लोयस्स वसं न गच्छे ।।
वृ. पुनरप्युपसंहारव्याजेनोपदेशमाह-'एतान' पूर्वोक्तान्नरकान् तास्थ्यात्तद्यपदेश इतिकृत्वा नरकदुःखविशेषान् 'श्रुत्वा' निशम्य धीः बुद्धिस्तया राजत इति धीरो-बुद्धिमान् प्राज्ञः, एतत्कुर्यादिति दर्शयति-सर्वस्मिन्नपि-त्रसस्थावरभेदभिन्ने 'लोके' प्राणिगणेन कमपि प्राणिनं 'हिंस्यात्' न व्यापादयेत्
तथैकान्तेन निश्चला जीवादितत्त्वेषु दृष्टिः सम्यदर्शनं यस्य स एकान्तदृष्टिः निष्प्रकम्पसम्यक्त्व इत्यर्थः-, तथा न विद्यते परि-समन्तात्सुखार्थं गृह्यत इति परिग्रहो यस्यासौ अपरिग्रहः, तुशब्दादाद्यन्तोपादानाद्वा मृषावादादत्तादानमैथुनवर्जनमपि द्रष्टव्यं, तथा 'लोकम्' अशुभकर्मकारिणं तद्विपाकफलभुजं वा यदिवा- कषायलोकं तत्स्वरूपतो 'बुध्येत जानीयात्, न तु तस्य लोकस्य वशं गच्छेदिति ॥
मू. (३५१) एवं तिरिक्खे मणुयासुरेसुं, चतुरन्तऽनंतं तयणुव्विवागं ।
स सव्वमेयं इति वेदइत्ता, कंखेज कालं धुयमायरेज ॥ -त्तिबेमि ।
वृ. एतदनन्तरोक्तं दुःखविशेषमन्यत्राप्यतिदिशन्नाह - 'एवम्' इत्यादि, एवमशुभकर्मका
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International