________________
१४९
श्रुतस्कन्धः - १, अध्ययनं - ५, उद्देशकः - २ मू. (३२९) बाहु पकत्तंति य मूलतो से, थूलं वियासं मुहे आडहति।
रहंसि जुत्तं सरयंति बालं, आरुस्स विझंति तुदेण पिढें ॥ वृ. से तस्य नारकस्यतिसृषुनरकपृथिवीषुपरमाधार्मिका अपरनारकाश्चअधस्तनचतसृषु चापरनारका एव मूलत आरभ्य बाहून् ‘प्रकर्तयन्ति' छिन्दन्ति तथा 'मुखे' विकाशं कृत्वा स्थूलं' बृहत्तप्तायोगोलादिकं प्रक्षिपन्त आ-समन्ताद्दहन्ति । तथा 'रहसि' एकाकिनं 'युक्तम्' उपपन्नं युक्तियुक्तं स्वकृतवेदनानुरूपंतत्कृतजन्मान्तरानुष्ठानंतं 'बालम्' अज्ञं नारकंस्मारयन्ति, तद्यथा
तप्तत्रपुपानावसरे मद्यपस्त्वमासीस्तथा स्वमांसभक्षणावसरे पिशिताशी त्वमासीरित्येवं दुःखानुरूपमनुष्ठानं स्मारयन्तः कदर्थयन्ति,तथा-निष्कारणमेव आरूष्य' कोपं कृत्वाप्रतोदादिना पृष्ठदेशे तं नारकं परवशं विध्यन्तीति । मू. (३३०) अयंव तत्तं जलियंसजोइ, तऊवमं भूमिमनुक्कमंता।
ते डज्झमाणा कलुणं थणंति, उसुचोइया तत्तजुगेसु जुत्ता। वृ. तथा-तप्तायोगोलकसन्निम्यां ज्वलितज्योतिभूतां तदेवंरूपां तदुपमा वा भूमिम् 'अनुक्रामन्तः' तांज्वलितां भूमिं गच्छन्तस्ते दह्यमानाः ‘करुणं' दीनं-विस्वरं 'स्तनंति' रारटन्ति तथा तप्तेषुयुगेषु युक्ता गलिबलीव इव इषुणा प्रतोदादिरूपेण विध्यमानाः स्तनन्तीतिअन्यच्च मू. (३३१) बाला बला भूमिमनुक्कमंता, पविञ्जलं लोहपहं च तत्तं ।
जंसीऽभिदुग्गंसि पवज्जमाणा, पेसेव दंडेहिं पुराकरंति ॥ वृ. 'बाला' निर्विवेकिनः प्रज्वलितलोहपथमिव तप्तांभुवं पविज्जलं'तिरुधिरप्यादिना पिच्छिलां बलादनिच्छन्तः ‘अनुक्रम्यमाणाः' प्रेर्यमाणा विरसमारसन्ति, तथा यस्मिन्’ अभिदुर्गे कुम्भीशाल्मल्यादौप्रपद्यमानानरकपालचोदितान सम्यग्गच्छन्ति, ततस्ते कुपिताः परमाधार्मिकाः 'प्रेष्यानिव' कर्मकरानिव बलीवर्दवद्वा दण्डैर्हत्वा प्रतोदनेन प्रतुद्य पुरतः' अग्रतः कुर्वन्ति, न ते स्वेच्छया गन्तुं स्थातुं वा लभन्त इति । मू. (३३२) ते संपगाढंसि पवजमाणा, सिलाहि हम्मति निपातिणीहिं ।
संतावणी नाम चिरद्वितीया, संतप्पती जत्थ असाहुकम्मा। व.किञ्च-'ते' नारकाः 'सम्प्रगाढ' मिति बहवेदनमसह्यं नरकं मार्ग वा प्रपद्यमाना गन्तुं स्थातुंवा तत्राशक्नुवन्तोऽभिमुखपातिनीभिः शिलाभिरसुरैर्हन्यन्ते, तथा सन्तापयतीति सन्तापनीकुम्भी साच चिरस्थितिका तद्गतोऽसुमान्प्रभूतंकालं यावदतिवेदनाग्रस्त आस्ते यत्रच 'सन्तप्यते' पीड्यतेऽत्यर्थम् ‘असाधुकर्मा' जन्मान्तरकृताशुभानुष्ठान इति तथामू. (३३३) कंदूसु पक्खिप्प पयंति बालं, ततोवि दड्ढा पुण उप्पयंति।
ते उड्ढकाएहिं पखज्जमाणा, अवरेहिं खजंति सणप्फएहिं ।। वृ. तं 'बालं' वराकं नारकं कन्दुषु प्रक्षिप्य नरकपालाः पचन्ति, ततः पाकस्थानात् ते दह्यमानाचणका इव भृज्यमाना ऊर्धं पतन्त्युत्पतन्ति, ते च ऊर्ध्वमुत्पतिताः ‘उड्ढकाएहिति द्रोणैः काकै क्रियैः 'प्रखाधमाना' भक्ष्यमाणा अन्यतो नष्टाः सन्तोऽपरैः ‘सणप्फएहिंति सिंहव्याघ्रादिभिः 'खाद्यन्ते' भक्ष्यन्ते इति । मू. (३३४) समूसियं नाम विधूमठाणं, जं सोयतत्ता कलुणं थणंति।
अहोसिरं कटु विगत्तिऊणं, अयंव सत्थेहिं समोसवेति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org