________________
१४६
सूत्रकृताङ्ग सूत्रम् १/५/१/३१८
वृ. 'णमिति' वाक्यालङ्कारे, 'प्राणैः' शरीरेन्द्रियादिभिस्ते 'पापाः 'पापकर्मणो नरकपाला ‘विया-जयन्ति’ शरीरावयवानां पाटनादिभिः प्रकारैर्विकर्तनादवयवान् विश्लेषयन्ति, किमर्थमेवं ते कुर्वन्तीत्याह- 'तद्' दुःखकारणं 'भे' युष्माकं 'प्रवक्ष्यामियाथातथ्येन' अवितथं प्रतिपादयामीति दण्डयन्ति पीडामुत्पादयन्तीति दण्डा- दुःखविशेषास्तैरनारकाणामापादितैः 'बाला' निर्विवेका नरकपालाः पूर्वकृतं स्मारयन्ति, तद्यथा तथा हृष्टस्त्वं खादसि समुत्कृत्योत्कृत्य प्राणिनां मांसं तथा पिबसि तद्रसंमद्यं च गच्छसि परदारान्, साम्प्रतं तद्विपाकापादितेन कर्मणाऽभितप्यमानः किमेवं रारटीषीत्येवं सर्वै पुराकृतैः 'दण्डैः' दुःखविशेषः स्मारयन्तस्ताद्दशभूतमेव दुःखविशेषमुत्पादयन्तो नरकपालाः पीडयन्तीति ॥
मू. (३१९)
ते हम्ममाणा नरगे पडंति, पुन्ने दुरुवस्स महाभितावे । ते तत्थ चिट्ठति दुरुवभक्खी, तुट्टंति कम्मोवगया किमीहिं ॥
वृ. किञ्च- 'ते' वराका नारका 'हन्यमानाः ' ताड्यमाना नरकपालेभ्यो नष्टा अन्यस्मिन् धोरतरे 'नरके' नरकैकदेशे 'पतन्ति' गच्छन्ति, किम्भूते नरके ? - 'पूर्णे' भृते दुष्टं रूपं यस्य तद्दूरूपंविष्ठासृग्मांसादिकल्मलं तस्य भूते तथा 'महाभितापे' अतिसन्तापोपेते 'ते' नारकाः स्वकर्मावबद्धाः 'तत्र' एवम्भूते नरके 'दूरूपभक्षिणः' अशुच्यादिभक्षकाः प्रभूतं कालं यावत्तिष्ठन्ति, तथा 'कृमिभिः’ नरकपालापादितैः परस्परकृतैश्च 'स्वकर्मोपगताः' स्वकर्मढौकिताः 'तुद्यन्ते' व्यथ्यन्ते इति । तथा चागमः “छट्ठीसत्तमासुणं पुढवीसु नेरइया पहू महंताई लोहिकुंथुरूवाइं विउव्वित्ता अन्नमन्नस्स कार्य समतुरंगेमाणा समतुरंगेमाणा अनुघायमाणा अनुधायमाणा चिट्ठति । किञ्चान्यत्मू. (३२०) सया कसिणं पुण घम्मठाणं, गाढोवणीयं अतिदुक्खधम्मं । अंदूसु पक्खिप्प विहत्तु देहं, वेहेण सीसं सेऽभितावयंति ।।
वृ. 'सदा' सर्वकालं 'कुत्स्नं' संपूर्णं पुनः तत्र नरके 'धर्मप्रधानं' उष्णप्रधानं स्थिति-स्थानं नारकाणां भवति, तत्र हि प्रलयातिरिक्ताग्निना वातादीनामत्यन्तोष्णरूपत्वात्, तच्च :निधत्तनिकाचितावस्थैः कर्मभिर्नारकाणाम् 'उपनीतं' ढौकितं, पुनरपि विशिनष्टि अतीव दुःखमूअसातावेदनीयं । धर्म-स्वभावो यस्य तत्तथा तस्मिंश्चैवंविधे स्थाने स्थितोऽसुमान् 'अन्दुषु' निगडेषु देहं विहत्य प्रक्षिप्य च तथा शिरश्च 'से' तस्य नारकस्य 'वेधेन' रन्ध्रोत्पादनेनाभितापयन्ति कीलकैश्च सर्वाण्यप्यङ्गानि वितत्य चर्मवत् कीलयन्ति इति ॥
मू. (३२१) छिंदंति बालस्स खुरेण नक्क, उडेवि छिंदंति दुवेचे कण्णे । जिब्भं विणिक्क रस विहत्थिमित्तं, तिक्खाहिं सूलाहिऽभितावयंति ॥
वृ. अपिच-ते परमाधार्मिकाः पूर्वदुश्चरितानि स्मरयित्वा 'बालस्य' अज्ञस्य-निर्विवेकस्य प्रायशः सर्वदा वेदनासमुद्घातोपगतस्य क्षुरप्रेण नासिकां छिन्दन्ति तथैौष्ठावपि द्वावपि कर्णी छिन्दन्ति, तथा मद्यमांसरसाभिलिप्सोर्मृषाभाषिणो जिह्वां वितस्तिमात्रामाक्षिप्य तीक्ष्णाभिः शूलाभिः 'अभितापयन्ति' अपनयन्ति इति तथा
मू. (३२२) ते तिप्पमाणां तलसंपुडंव, राइदियं तत्थ थांति बाला ।
गलंति ते सोणिअपूयमंसं, पोयिंगा ॥
वृ. 'ते' छिन्ननासिकोष्ठजिह्वाः सन्तः शोणित विधानाः तो यत्र यस्मिन् प्रदेशे
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International