________________
१४५
श्रुतस्कन्धः - १, अध्ययनं-५, उद्देशकः - १
वृ. ते परमाधार्मिकास्तान्नारकान्स्वकीये रुधिरे तप्तकवल्यां प्रक्षिप्ते पुनः पचन्ति, वर्चःप्रधानानि समुच्छ्रितान्यत्राण्यङ्गानि वा येषां ते तथा तान् भिन्नं-चूर्णितम् उत्तमाङ्ग-शिरो येषां ते तथा तानित, कथं पचन्तीत्याह-'परिवर्तयन्तः' उत्तानानवाङ्मुखान् वा कुर्वन्तः णमिति वाक्यालङ्गारेतान्-'स्फुरत' इतश्चेतश्च विहमात्मानं निक्षिपतः सजीवमत्स्यानिवायसकवल्यामिति मू. (३१५) नो चेव ते तत्थ मसीभवंति, न मिज्जती तिव्वभिवेयणाए।
तमानुभागं अनुवेदयंता, दुक्खंतिदुक्खी इह दुक्कडेणं ।। वृ.तथा-तेचनारका एवंबहुशः पच्यमानाअपि 'नो' नैव तत्र' नरके पाकेवा नरकानुभावे वा सति 'मषीभवन्ति' नैव भस्मसाद्भवन्ति, तथा तत्तीव्राभिवेदनया नापरमग्निप्रक्षिप्तमस्यादिकमप्यस्ति यन्मीयते-उपमीयते, अनन्यसहशीं तीव्रांवेदनां वाचमगोचरामनुभवन्तीत्यर्थः, यदिवा । तीव्राभिवेदनयाऽप्यननुभूतस्वकृतकर्मत्वान्न म्रियन्त इति,प्रभूतमपिकालं यावत्तत्ताशं शीतोष्णवेदनाजनितंतथा दहनच्छेदनभेदनतक्षणत्रिशूलारोपणकुम्भीपाकशाल्मल्यारोहणादिकं परमाधार्मिकजनितं परस्परोदीरणनिष्पादितं च ‘अनुभागं' कर्मणां विपाकम् ‘अनुवेदयन्तः' समनुवेदयन्तः समनुभवन्तस्तिष्ठन्ति, तथा स्वकृतेन 'दुष्कृतेन' हिंसादिनाऽष्टादशपापस्थानरूपेण सततोदीर्णदुःखेन दुःखिनो 'दुःखयन्ति पीडयन्ते, नाक्षिनिमेषमपि कालं दुःखेन मुच्यन्त इति ।
-किञ्चान्यत्मू. (३१६) तहिं च ते लोलणसंपगाढे, गाढं सुतत्तं अगणिं वयंति।
नतत्थ सायं लहती भिदुग्गे, अरहियाभितावा तहवी तविति ॥ वृ. 'तस्मिंश्च महायातनास्थाने नरकेतमेव विशिनष्टि-नारकाणांलोलनेन सम्यक्प्रगाढोव्याप्तो भृतः स तथा तस्मिन्नरके अतिशीतार्ता सन्तो ‘गाढम्' अत्यर्थं सुष्टु तप्तम् अग्निं व्रजन्ति, 'तत्रापि' अग्निस्थानेऽभिदुर्गे दह्यमानाः ‘सातं' सुखं मनागपि न लभन्ते, 'अरहितो' निरन्तरोऽभितापो-महादाहो येषां तेअरहिताभितापाः तथापि तान्नारकांस्तेनरकपालास्तापयन्त्यत्यर्थं तप्ततैलाग्निना दहन्तीति ।। मू. (३१७) से सुच्चई नगरवहे व सद्दे, दुहोवणीयाणि पयाणि तत्थ ।
उदिण्णकम्माण उदिण्णकम्मा, पुणो पुणो ते सरहंदुहेति ।। वृ.अपिच-सेशब्दोऽथशब्दार्थे, 'अथ' अनन्तरं तेषां नारकाणां नरकपालै रौद्रैः कदर्थ्यमानानां भयान हाहारवप्रचुर आक्रन्दनशब्दो नगरवधइव श्रूयते' समाकर्ण्यते, दुःखेन पीडयोपनीतानि-उच्चरितानिकरुणाप्रधानानि यानि पदानिहा मातस्तात! कष्टमनाथोऽहंशरणागतस्तव त्रायस्व मामित्येवमादीनां पदानां तत्र' नरके शब्दः श्रूयते।
उदीर्णम्-उदयप्राप्त कटुविपाकं कर्म येषां ते तथा तेषां तथा उदीर्णकर्माणो' नरकपाला मिथ्यात्वहास्यरत्यादीनामुदये वर्तमानाः ‘पुनः पुनः' बहुशस्ते ‘सरहं (दुहे)ति' सरभसं-सोत्साहं नारकान् ‘दुःखयन्ति' अत्यन्तमसा नानाविधैरुपायैर्दुखमसातवेदनीयमुत्पादयन्तीति । तथामू. (३१८) पाणेहिणं पाव विओजयंति, तंभे पवक्खामि जहातहेणं ।
दंडेहिं तत्था सरयंति बाला, सव्वेहिं दंडेहि पुराकएहिं । 2010
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org