________________
श्रुतस्कन्धः-१, अध्ययनं-५, उद्देशकः - १
१४३
भिन्ना-नष्टा संज्ञा-अन्तःकरणवृत्तिर्येषां तेतथा नष्टसंज्ञाश्च ‘कां दिशं व्रजामः' कुत्रगतानामस्माकमेवम्भूतस्यास्य महाघोरारवदारुणस्य दुःखस्य त्राणं स्यादित्येतत्काङ्क्षन्तीति।
-तेच भयोद्धान्तादिक्षु नष्टा यदनुभवन्ति तद्दर्शयितुमाहमू. (३०६) इंगालरासिं जलियं सजोतिं, तत्तोवमं भूमिमनुक्कमंता।
ते डज्झमाणा कलुणं थणंति, अरहस्सरा वत्थ चिरद्वितीया ।। वृ. 'अङ्गारराशि' खदिराङ्गारपुऑ 'ज्वलितं ज्वालाकुलं तथा सहज्योतिषा-उद्योतेन वर्तत इति सज्योतिर्भूमिः, तेनोपमा यस्याः सा तदुपमा तामङ्गारसन्निभां भूमिमाक्रमन्तस्ते नारका दन्दह्यमानाः ‘करुणं' दीनं 'स्तनन्ति' आक्रन्दन्ति, तत्र बादराग्रेभावात्तदुपमा भूमिमित्युक्तम् ।
एतदपि दिग्दर्शनार्थमुक्तम्, अन्यथा नारकतापस्येहत्याग्निना नोपमाघटते, तेच नारका महानगरदाहाधिकेनतापेन दह्यमाना 'अरहस्वरा' प्रकटस्वरामहाशब्दाःसन्तः 'तत्र' तस्मिन्नरकावासे चिरं-प्रभूतंकालं स्थिति-अवस्थानं येषां तेतथा, तथाहि-उत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमाणि जघन्यतो दशवर्षसहस्राणि तिष्ठन्तीति ॥ मू. (३०७)जइ ते सुया वेयरणी भिदुग्गा, निसिओ जहा खुर इव तिक्खसोया।
तरंति ते वेयरणी भिदुग्गां, उसुचोइया सत्तिसुहम्ममाणा। वृ.अपिच-सुधर्मस्वामी जम्बूस्वामिनंप्रतीदमाह-यथा भगवतेदमाख्यातं यदि 'ते' त्वया श्रुता-श्रवणपथमुपागता 'वैतरणी' नाम क्षारोष्णरुधिराकारजलवाहिनी नदी आभिमुख्येन दुर्गा अभिदुर्गा-दुःखोत्पादिका।
तथा-निशितो यथा क्षुरस्तीक्ष्णो भवत्येवं तीक्ष्णानि-शरीरावयवानां कर्तकानि स्रोतांसि यस्याः सातथा,तेच नारकास्तप्ताङ्गारसन्निभां भूमिं विहायोदकपिपास-वोऽभितप्ताः सन्तस्तापापनोदाया- भिषिषिक्षवो वा तां वैतरणीमभिदुर्गा तरन्ति, कथम्भूताः ?-इषुणा-शरेण प्रतोदेनेव चोदिताः-प्रेरिताः शक्तिभिश्च हन्यानास्तामेव भीमां वैतरणीं तरन्ति, तृतीयार्थे सप्तमी किञ्चमू. (३०८) कीलेहिं विझंति असाहुकम्मा, नावं उविंते सइविप्पहूणा ।
अन्नेतु सूलाहिं तिसूलियाहिं, दीहाहिं विभ्रूण अहेकरंति॥ वृ.तांश्च नारकानत्यन्तक्षारोष्णेन दुर्गन्धेन वैतरणीजलेनाभितप्तानायसकीलाकुलांनावमुपगच्छतः पूर्वारूढा 'असाधुकर्माणः' परमाधार्मिकः कीलेषु कण्ठेषुविध्यन्ति, तेच विध्यमानाः कलकलायमान सर्वनोतोऽनुयायिना वैतरणीजलेन नष्टसंज्ञा अपि सुतरां 'स्मृत्या विप्रहीणा' अपगत- कर्तव्यविवेका भवन्ति, अन्ये पुनर्नरकपाला नारकैः क्रीडतस्तान्नष्टांस्त्रशूिलिकाभिः शूलाभिः 'दीर्घिकाभिः' आयताभिर्विध्वा अधोभूमौ कुर्वन्तीति। मू. (३०९) केसिंच बंधित्तु गले सिलाओ, उदगंसि बोलंति महालयंसि ।
कलंबुयावालुय मुम्मुरे य, लोलंति पञ्चंति अ तत्थ अन्ने । वृ.अपिच-केषांचिनारकाणांपरमाधार्मिका महतीं शिलां गलेबद्धा महत्युदके बोलंति'त्ति निमज्जयन्ति, पुनस्ततः समाकृष्य वैतरणीनद्याः कलम्बुकावालुकायां मुर्मुराग्नौ च ‘लोलयन्ति' अतितप्तवालुकायंचणकानिव समन्ततो घोलयन्ति, तथा अन्ये 'तत्र' नरकावासे स्वकर्मपाशावपाशितान्नारकान्सुण्ठके प्रोतकमांसपेशीवत् ‘पचन्ति' भर्जयन्तीति तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org