________________
१३४
सूत्रकृताङ्ग सूत्रम् १/४/२/२९८
एवंवाचा कायेनच, सर्वेऽप्यौदारिकेनवभेदाः, एवं दिव्येऽपिनवभेदाः, ततश्चाष्टादशभेदभिन्नमपि ब्रह्म बिभृयात्, यथा च स्त्रिस्पर्शपरीषहः सोढव्य एवं सर्वानपि शीतोष्णदंशमशकतृणादिस्पर्शानधिसहेत, एवं च सर्वस्पर्शसहोऽनगारः साधुर्भवतीति ।
मू. (२९९) इञ्चेवमाहु से वीरे, धुअरए धुअमोहे से भिक्खू। __तम्हा अज्झत्थविसुद्धे, सुविमुक्के आमोक्खाए परिव्वएज्जा सिह । तिबेमि॥
वृ.क एवमाहेति दर्शयति-'इति' एवं यत्पूर्वमुक्तं तत्सर्वसवीरो भगवानुत्पन्नदिव्यज्ञानः परहितैकरतः 'आह' उक्तवान्, यत एवमतधूतम्-अपनीतं रजः-स्त्रिसम्पर्कादिकृतं कर्मयेनस धूतरजाः तथा धूतो मोहो रागद्वेषरूपो येन स तथा । पाठान्तरं वा धूतः-अपनीतो रागमार्गोरागपन्था यस्मिन् स्त्रीसंस्तवादिपरिहारे तत्तथा तत्सर्वं भगवान् वीर एवाह, यत एवं तत्सात् स भिक्षु 'अध्यात्मविशुद्धः' सुविशुद्धान्तःकरणः सुष्टु रागद्वेषात्मकेन स्त्रीसम्पर्केण मुक्तः सन् 'आमोक्षाय' अशेषकर्मक्षयं यावत्परि-समन्तात्संयमानुष्ठानेन 'व्रजेत्' गच्छेत्संयमोद्योगवान् भवेदिति, इति परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ।
अध्ययनं-४ उद्देशकः-२ समाप्तः
अध्ययनं-४ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाङ्काचार्य विरचिता प्रथम श्रुतस्कन्धस्य चतुर्थअध्ययनटीका परिसमाप्ता ।
(अध्ययनं-५ नरकविमक्तिः ) वृ.उक्तंचतुर्थमध्ययनं, साम्प्रतंपञ्चममारभ्यते, अस्य चायमभिसम्बन्धः, इहाद्ये अध्ययने स्वसमयपरसमयप्ररूपणाऽभिहिता, तदनन्तरं स्वसमये बोधो विधेय इत्येताद्वितीयेऽध्ययनेऽभिहितं, सम्बुद्धेन चानुकूलप्रतिकूला उपसर्गा सम्यक् सोढव्या इत्येतत्तृ तीयेऽध्ययने प्रतिपादितं, तथा सम्बुद्धेनैव स्त्रीपरीषहश्च सम्यगेव सोढव्य इत्येतच्चतुर्थेऽध्ययने प्रतिपादितं, साम्प्रतमुपसर्गभीरोः स्त्रीवशगस्यावश्यं नरकपातोभवति तत्रच याद्दक्षा वेदनाः प्रादुर्भवन्ति ता अनेनाध्ययनेन प्रतिपाद्यन्ते, तदनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्युनुयोगद्वाराणि उपक्रमादीनि वक्तव्यानि, तत्रोपक्रमान्तर्गतोऽधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च, तत्राध्ययनार्थाधिकारी नियुक्तिकारेण प्रागेवाभिहितः।
तद्यथा-'उवसग्गभीरुणोथीवसस्सनरएसुहोज उववाओ' इत्यनेन, उद्देशार्थाधिकारस्तु नियुक्तिकृता नाभिहितः, अध्ययनार्थाधिकारान्तर्गतत्वादिति । साम्प्रतं निक्षेपः, सच त्रिविधः,
ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्चेति, तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने तु नरकविभक्तिरिति द्विपदं नाम, तत्र नरकपदनिक्षेपार्थं नियुक्तिकृदाहनि. [६४] निरए छक्कं दव्वं निरया उ इहेव जे भवे असुभा ।
___ खेत्तं निरओगासो कालो निरएसुचेव ठिती॥ नि. [६५] भावे उ निरयजीवा कम्मुदओ चेव निरयपाओगो।
सोऊण निरयदुक्खंतवचरणे होइ जइयव्वं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org