SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं- ४, उद्देशकः - २ १२९ भवति ताभि कपटनाटक-नायिकाभिःस्त्रीभिः, ततः तदभिप्रायपरिज्ञानादुत्तरकालं 'तथाभूतैः' कर्मकरव्यापारैरपशदैः 'प्रेषयन्ति' नियोजयन्ति यदिवा-तथाभूतैरिति लिङ्गस्थयोग्यैर्व्यापारैः प्रेषयन्ति, तानेव दर्शयितुमाह 'अलाउ'त्तिअलाबु-तुम्बंछिद्यते येन तदलाबुच्छेदं-पिप्पलकादिशस्त्रं 'पेहाहि'त्ति प्रेक्षस्व निरूपय लभस्वेति, येन पिप्पलकादिना लब्धेन पात्रादेर्मुखादि क्रियत इति, तथा 'वल्गूनि' शोभनानि फलानि' नालिकेरादीनिअलाबुकानी वा त्वम् ‘आहर आनयेति, यदिवा-वाक्फलाने च धर्मकथारूपाया व्याकरणादिव्याख्यानरूपाया वा वाचो यानि फलानि-वादिलाभरूपाणि तान्याहरेति अपिचमू. (२८२) दारूणि सागपागाए, पञ्जोओ वा भविस्सती राओ। पाताणि य मे रयावेहि, एहि ता मे पिट्ठओमहे ।। ७. तथा 'दारूणि' काष्ठानि शाकं टक्कवस्तुलादिकं पत्रशाकं तत्पाकार्थं, कवचिद अन्नपाकायेति पाठः, तत्रान्नम्-ओदनादिकमिति, रात्रौ' रजन्या प्रद्योतो वा भविष्यतीतिकृत्वा, अतोअटवीत-स्तमाहरेति, तथा-'पात्राणि' पतद्ग्रहादीनि रञ्जय' लेपय, येन सुखेनैव भिक्षाटनमहं करोमि. यदिवा-पादावलक्तकादिना रञ्जयेति, तथा-परित्यज्यापरं कर्म तावद 'एहि' आगच्छ 'मे' मम पृष्ठिम् उत्-प्राबल्येन मर्दय बाधते ममाङ्गमुपविष्टाया अतः संबाधय, पुनरपरं कार्यशेषं करिष्यसीति॥ मू. (२८३) वत्थाणि य मे पडिलेहेहि, अन्नं पाणंच आहाराहित्ति। गंधं च रओहरणं च, कासवगं च मे समनुजाणाहि ।। वृ.किञ्च-'वस्त्राणि च' अम्बराणि 'मे' मम जीर्णानि वर्तन्तेऽतः ‘प्रत्युपेक्षस्व' अन्यानि निरूपय, यदिवा-मलिनानि रजकस्य समर्पय, मदुपधिं वा मूषिकादिभयाप्रत्युपेक्षस्वेति, तथा अन्नपानादिकम् ‘आहर' आनयेति, तथा 'गन्धं' कोष्ठपुटादिकं ग्रन्थं वा हिरण्यं तथा शोभनं रजोहरणंतथा लोचंकारयितुमहशक्तेत्यतः काश्यपं' नापितं मच्छिरोमुण्डनाय श्रमणानुजानीहि येनाहं बृहत्केशान-पनयामीति किञ्चान्यत्मू. (२८४) अदु अंजणिं अलंकर, कुक्कययं मे पयच्छाहि । लोद्धं च लोद्धकुसुमंच, वेणुपलासियं च गुलियं च ।। वृ.अथशब्दोऽधिकारान्तरप्रदर्शनार्थपूर्व लिङ्गस्थोपकरणान्यधिकृत्याभिहितम्, अधुना गृहस्थोपकरणान्यधिकृत्याभिधीयते, तद्यथा-'अंजणिमितिअञ्जणिकां कज्जलाधारभूतांनलिकां मम प्रयच्छस्वेत्युत्तरत्र क्रिया, तथा कटककेयूरादिकमलङ्कारं वा, तथा 'कुक्कययंति खुंखुणकं 'मे' मम प्रयच्छ, येनाहं सर्वालङ्कारविभूषिता वीणाविनोदेन भवन्तं विनोदयामि, तथा लोभ्रंच लोध्रकुसुमं च, तथा 'वेणुपलासिय'ति वंशात्मिका श्लक्ष्णत्वक् काष्ठिका, सा दन्तैर्वामहस्तेन प्रगृह्य दक्षिणहस्तेन वीणावद्वाद्यते, तथौषधगुटिकांतथाभूतामानय येनाहमविनष्टयौवनाभवामीति मू. (२८५) कुटुंतगरंच अगरुं, संपिठं सम्मं उसिरेणं। : तेलं मुहभिंजाए, वेणुफलाई सन्निधानाए। 29 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy