________________
श्रुतस्कन्धः- १, अध्ययनं-४, उद्देशकः - १
१२७
वत्व
कामः-तदभिलाषीमामे लोके अवर्णवादः स्यादित्यकार्यं प्रच्छादयति विषण्णः-असंयमस्तमेषितं शीलमस्येति विषण्णैषी। मू. (२७६) संलोकनिजमनगारं, आयगयं निमंतणेणाहंसु ।
वत्थं च ताइ ! पायं वा, अन्नं पाणगं पडिग्गाहे ॥ वृ. किञ्चान्यत्-संलोकनीयं-संदर्शनीयमाकृतिमन्तं कञ्चन ‘अनगारं' साधुमात्मनि गतमात्मगतम् आत्मज्ञमित्यर्थः, तदेवम्भूतं काश्चन स्वैरिण्यो 'निमन्त्रणेन' निमन्त्रणपुरःसरम् 'आहुः' उक्तवत्यः, तद्यथा-हे त्रायिन् ! साधो वस्त्रं पात्रमन्यद्वा पानादिकं येन केनचिद्भवतः प्रयोजनं तदहं भवते सर्वं ददामीति मद्गृहमागत्य प्रतिगृहाण त्वमिति ॥ मू. (२७७) नीवारमेवं बुज्झेजा, नो इच्छे अगारमागंतुं ।
बद्धे विसयपासेहिं, मोहमावज्जइ पुणो मंदे ।। -त्तिबेमि । वृ. उपसंहारार्थमाह-एतद्योषितां वस्त्रादिकमामन्त्रणं नीवारकल्पं 'बुध्येत' जानीयात्, यथाहि नीवारेण केनचिद्भक्ष्यविशेषेण सूकरादिवशमानीयते, एवमसावपितेनामन्त्रणेन वशमानीयते, अतस्तन्नेच्छेद 'अगारं गृहंगन्तुं, यदिवा-गृहमेवावर्तो गृहभ्रमस्तं 'नेच्छेत् नाभिलषेत्, किमिति? यतो बद्धो वशीकृतो विषया एव शब्दादयः ‘पाशा' रज्जूबन्धनानितैर्बद्धः-परवशीकृतः स्नेहपाशानपत्रोटयितुमसमर्थ सन् ‘मोहं' चित्तव्याकुलत्वमागच्छति-किंकर्तव्यतामूढो भवति पौनःपुन्येन ‘मन्दः' अज्ञो जड इति । इति परिसमाप्तौ । ब्रवीमीति पूर्ववत् ।
अध्ययनं-४ उद्देशकः-१ समाप्तः
-अध्ययनं-४ उद्देशक:-२ :उक्तः प्रथमोद्देशकः,साम्प्रतंद्वितीयःसमारभ्यते, अस्यचायमभिसम्बन्धः-इहानन्तरोद्देशके स्त्रीसंस्तवाञ्चारित्रस्खलनमुक्तं, स्खलितशीलस्यया अवस्था इहैव प्रादुर्भवति तत्कृतकर्मबन्धश्च तदिह प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्मू. (२७८) ओए सया न रज्जेज्जा, भोगकामी पुणो विरज्जेजा।
भोगे समणाण सुणेह, जह भुंजंति भिक्खुणो एगे। वृ.अस्य चानन्तरपरम्परसूत्रसम्बन्धोवक्तव्यः, सचायं सम्बन्धो-विषयपाशैर्मोहमागच्छति यतोऽत 'ओज'एको रागद्वेषवियुतःस्त्रीषुरागंनकुर्यात्, परम्परसूत्रसम्बन्धस्तुसंलोकनीयमनगारं दृष्ट्वा च यदि काचिद्योषित् साधुमशनादिना नीवारकल्पेन प्रतारयेत् तत्रौजः सन्न रज्येतेति, तत्रौजो द्रव्यतःपरमाणुःभावतस्तुरागद्वेषवियुतः, स्त्रीषुरागादिहैववक्ष्यमाणनीत्या नानाविधा विडम्बना भवन्ति तत्कृतश्च कर्मबन्धः तद्विपाकाच्चामुत्र नरकादौ तीव्रा वेदना भवन्ति यतोऽत एतन्मत्वा भावौजःसन् ‘सदा' सर्वकालंतास्वनर्थखनिषुस्त्रीषु न रज्येत, तथा यद्यपि मोहोदयात् भोगाभिलाषी भवेत् तथाप्यहिकामुष्मिकापायान् परिगणय्य पुनस्ताभ्यो विरज्येत, एतदुक्तं भवति
कर्मोदयात्प्रवृत्तमपि चित्तं हेयोपादेयपर्यालोचनया ज्ञानाङ्कुशेन निवर्तयेदिति, तथा श्राम्यन्ति-तपसा खिद्यन्तीति श्रमणास्तेषीएषामपि भोगा इत्येतच्छृणुत यूयं, एतदुक्तं भवतिगृहस्थानामपि भोगाविडम्बनाप्राया यतीनांतुभोगा इत्येतदेव विडम्बनाप्रायं, किंपुनस्तत्कृतावस्थाः, तथाचोक्तम्-"मुण्डं शिर" इत्यादि पूर्ववत्, तथा यथा च भोगान् ‘एके' अपुष्टधर्माणो 'भिक्षवो'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org