________________
१२६
सूत्रकृताङ्ग सूत्रम् १/४/१/२७१ वृ. 'युवतिः' अभिनवयौवनास्त्री विचित्रवस्त्रालङ्कारविभूषितशरीरामायया श्रमणंब्रूयात्, तद्यथा-विरता अहं गृहपाशात् न ममानुकूलो भर्ता मह्यं वाऽसौ न रोचते परित्यक्ता वाऽहं तेनेत्येतत 'चरिष्यामि' करिष्याम्यहं 'रूक्ष' मिति संयम, मौनमिति वा क्वचित्पाठः तत्र मुनेरयं मौनः-संयमस्तमाचरिष्यामि, धर्ममाचक्ष्व ‘णे'त्ति अस्माकं हे भयत्रातः!, यथाऽहमेवं दुःखानां भाजनं न भवामि तथा धर्ममावेदयेति ।। मू. (२७२) अदु साविया पवाएणं, अहमंसि साहम्मिणी य समाणाणं ।
जतुकुंभे जहा उवज्जोई, संवासे वदू विसीएज्जा ॥ वृ. किञ्चान्यत्-अथवाऽनेन ‘प्रवादेन' व्याजेन साध्वन्तिकं योषिदुपसर्पत्-यथाऽहं श्राविकेतिकृत्वा युष्माकं श्रमणानां साधर्मिणीत्येवंप्रपञ्चेन नेदीयसीभूत्वा कूलवालुकमिवसाधुं धर्माद्धंशयति, एतदुक्तं भवति-योषित्सान्निध्यं ब्रह्मचारिणां महतेऽनय, तथा चोक्तम् - ॥१॥ “तज्ज्ञानं तच्च विज्ञानं, तत्तपः सच संयमः।
सर्वमेकपदे भ्रष्टं, सर्वता किमपि स्त्रियः॥ अस्मिन्नेवार्थे दृष्टान्तमाह-यथा जातुषः कुम्भो ‘ज्योतिषः' अग्नेः समीपे व्यवस्थित उपज्योतिर्वर्ती 'विलीयते' द्रवति, एवं योषितां 'संवासे' सान्निध्ये विद्वानपि आस्तां तावदितरो योऽपि विदितवेद्योऽसावपि धर्मानुष्ठानं प्रति 'विषीदेत' शीतलविहारी भवेदिति ।
एवं तावत्स्त्री सान्निध्ये दोषान् प्रदर्य तत्संस्पर्शजं दोषं दर्शयितुमाहमू. (२७३) जतुकुंभे जोइउवगूढे, आसुऽभितत्ते नासमुवयाइ ।
एवित्थियाहिं अनगारा, संवासेण नासमुवयंति॥ वृ. यथाजातुषः कुम्भो ज्योतिषा' अग्निनोपगूढः-समालिङ्गितोऽभितप्तोऽग्निनाभिमुख्येन् सन्तापितः क्षिप्रं 'नाशमुपयाति' द्रवीभूय विनशयति, एवंस्त्रीभिः सार्धं संवसनेन परिभोगेनानगारा नाशमुपयान्ति, सर्वथा जातुषकुम्भवत् व्रतकाठिन्यं परित्यज्य संयमशरीराद् भ्रश्यन्ति । मू. (२७४) कुब्वंति पावगं कम्मं, पुट्ठा वेगेवमाहिंसु ।
नोऽहं करेमि पावंति, अंकेसाइणी ममेसत्ति। वृ.अपिच-तासुसंसाराभिष्वङ्गिणीष्वभिषक्ताअवधीरितैहिकामुष्मिकापायाः ‘पापं कर्म' मैथुनासेवनादिकं कुर्वन्ति विदधति, परिभ्रष्टाः सदनुष्ठानाद् ‘एके केचनोत्कटमोह आचार्यादिना चोद्यमाना एवमाहुः' वक्ष्यमाणमुक्तवन्तः, तद्यथा-नाहमेवम्भूतकुलप्रसूतः एतदकार्यपापोपादानभूतंकरिष्यामि, ममैषादुहितृकल्पापूर्वम् अङ्केशयिनीआसीत्, तदेषा पूर्वाभ्यासेनैवमय्येवमाचरति, न पुनरहं विदितसंसारस्वभावः प्राणात्ययेऽपि व्रतभङ्गं विधास्य इति । किञ्चमू. (२७५) बालस्स मंदयंबीयं, जंच कडं अवजाणईं भुजो।
दुगुणं करेइ से पावं, पूयणकामो विसनेसी॥ वृ. 'बालस्य' अज्ञस्य रागद्वेषाकुलितस्यापरमाथश एतद्दितीयं 'मान्छ' अज्ञत्वम्, एकं तावदकार्यकरणेनचतुर्थव्रतभङ्गो द्वितीयंतदपलपनेन मृषावादः, तदेवदर्शयति-यत्कृतमसदाचरणं 'भूयः' पुनरपरेण चोद्यमानः 'अपजानीते' अपलपति-नैतन्मया कृतमिति, स एवम्भूतः असदनुष्ठानेन तदपलपनेनच द्विगुणं पापंकरोति, किमर्थमपलपतीत्याह-पूजनं-सत्कारपुरस्कारस्तत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org