SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ११० सूत्रकृताङ्ग सूत्रम् १/३/४/२३६ विहायसागच्छतीति विहंगमा-पक्षिणी पिंगे'ति कपिजला साऽऽकाशएव वर्तमानाः 'तिमितं' निभृतमुदकमापिबति, एवमत्रापि दर्भप्रदानपूर्विकया क्रिययाअरक्तद्विष्टस्य पुत्राद्यर्थं स्त्रीसम्बन्धं कुर्वतोऽपि कपिञ्जलाया इव न तस्य दोष इति। साम्प्रतमेतेषां गण्डपीडनतुल्यं स्त्रीपरिभोगं मन्यमानानां तथैडकोदकपानसशं परपीडाऽनुत्पादकत्वेन परात्मनोश्च सुकोत्पादकत्वेन किल मैथुनं जायत इत्यध्यवसायिनां तथा कपिञ्जलोदकपानं यथा तडागोदकासंस्पर्शेन किल भवत्येवमरक्तद्विष्टतया दर्भाधुत्तारणात् स्त्रीगात्रासंस्पर्शेन पुत्रार्थं न कामार्थं ऋतुकालाभिगामितया शास्त्रोक्तविधानेन मैथुनेऽपि न दोषानुषङ्गः, तथा चोचुस्ते॥१॥ “धर्मार्थं पुत्रकामस्य, स्वदारेष्वधिकारिणः । ऋतुकाले विधानेन, दोषस्तत्र न विद्यते ॥ इति, एवमुदासीनत्वेन व्यवस्थितानां दृष्टान्तेनैव नियुक्तिकारोगाथात्रयेणोत्तरदानायाहनि. [५३] जह नाम मंडलग्गेण सिरं छेतून कस्सइ मणुस्सो। अच्छेज्ज पराहुत्तो किं नाम ततो न धिप्पेज्जा । नि. [५४] जह वा विसगंडूसं कोई धेत्तूण नाम तुण्हिक्को। अन्नेण अदीसंतो किं नाम ततो न व मरेज्जा ।। नि. [५५] जह नाम सिरिधराओ कोइ रयणाणि नाम धेत्तूणं । अच्छेज्ज पराहुत्तो किं नाम ततो न धेप्पेजा। यथानाम कश्चिन्मण्डलाग्रेण कस्यचिच्छिरश्चित्वापराङ्मुखस्तिष्ठेत्, किमेतावतोदासीनभावावलम्बनेन 'न गृह्येत' नापराधी भवेत् । तथा-यथा कश्चिद्विषगण्डूषं 'गृहीत्वा' पीत्वा नाम तूष्णींभावं भजेदन्येन चादृश्यमानोऽसौ किं नाम 'ततः' असावन्यादर्शनात् न म्रियेत? । तथा - यथाकश्चित् श्रीगृहाद्-भाण्डागाराद्रलानिमहार्धाणि गृहीत्वा पराङ्मुखस्तिष्ठेत्, किमेतावताऽसौ नगृह्येतेति? । अत्र च यथा-कश्चित् शठतया अज्ञतया वा शिरश्छेदविषगण्डूषरत्नापहाराख्ये सत्यपि दोषत्रये माध्यस्थ्यमवलम्बेत, न च तस्य तदवम्बनेऽपि निर्दोषतेति, एवमत्राप्यवश्यंभाविरागकार्ये मैथुने सर्वदोषास्पदे संसारवर्द्धके कुतो निर्दोषतेति, तथा चोक्तम् - ॥१॥ “प्राणिनां बाधकं चैतच्छास्त्रे गीतं महर्षिभिः। नलकातप्तकणकप्रवेशज्ञाततस्तथा। ॥२॥ मूलं चैतदधर्मस्य, भवभावप्रवर्धनम्। तस्माद्विषान्नवत्त्याज्यमिदं पापमनिच्छता॥ -इति नियुक्तिगाथात्रयतात्पर्यार्थ ।। मू. (२३७) एवमेगे उ पासत्था, मिच्छदिट्ठी अनारिय। अज्झोववन्ना कामेहिं, पूयणा इव तरुणए । वृ. साम्प्रतं सूत्रकार उपसंहारव्याजेन गण्डपीडनादिद्दष्टान्तवादिनांदोषोद्विभावविषयाह“एव' मिति गण्डपीडनादिदृष्टान्तबलेन निर्दोष मैथुनमिति मन्यमाना ‘एके' स्त्रीपरीषहपराजिताः सदनुष्ठानात्पाश्र्धं तिष्ठन्तीति पार्श्वस्था नाथवादिकमण्डलचारिणः, तुशब्दात् स्वयूथ्या वा, तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy