________________
१०७
श्रुतस्कन्धः - १, अध्ययनं- ३, उद्देशकः - ४
एतदेव दर्शयतुमाह-एतेपूर्वोक्तानम्यादयोमहर्षयः पूर्वमि तिपूर्वस्मिन्काले त्रेताद्वापरादौ 'महापुरुषा' इति प्रधानपुरुषा आ-समन्तात्ख्याताः आख्याताः-प्रख्याता राजर्षित्वेन प्रसिद्धिमुपगता इहापि आर्हते प्रवचेन ऋषिभाषितादौ केचन ‘सम्मता' अभिप्रेता इत्येवं कुतीर्थिकाः स्वयूथ्या वा प्रोचुः । तद्यथा-एते सर्वेऽपि बीजोदकादिकं भुक्त्वा सिद्धा इत्येतन्मया भारतादौ पुराणे श्रुतम् एतदुपसंहारद्वारेण परिहरन्नाहमू. (२२९) तत्थ मंदा विसीअंति, वाहच्छिन्ना व गद्दभा।
पिट्ठतो परिसप्पंति, पिट्ठसप्पी य संभमे ।। वृ. 'तत्र' तस्मिन् कुश्रुत्युपसर्गोदये 'मन्दा' अज्ञानानाविधोपायसाध्यं सिद्धिगमनमवधार्य विषीदन्ति संयमानुष्ठाने, न पुनरेतद्विदन्त्यज्ञाः, तद्यथा-येषां सिद्धिगमनमभूत्तेषांकुतश्चिन्निमित्तात् जातजातिस्मरणादिप्रत्ययानामवाप्तसम्यगज्ञानचारित्राणामेव वल्कचीरिप्रभृतीनामिव सिद्धिगमनमभूत्, नपुनः कदाचिदपि सर्वविरतिपरिणामभावलिङ्गमन्तरेणशीतोदकबीजाद्युपभोगेन जीवोपमर्दप्रायेण कर्मक्षयोऽवाप्यते, विषीदने दृष्टान्तमाह-वहनं वाहो-भारोद्वहनं तेन छिन्नाःकर्षितास्त्रुटिता रासभा इव विषीदन्ति ।
यथा-रासभा गमनपथ एव प्रोज्झितभारा निपतन्ति, एवं तेऽपि प्रोझ्य संयमभारं शीतलविहारिणो भवन्ति, दृष्टान्तान्तरमाह-यथा ‘पृष्ठसर्पिणो' भग्नगतयोऽग्न्यादिसम्भ्रमे सत्युदभ्रान्तनयनाः समाकुलाः प्रनष्टजनस्य पृष्ठतः' पश्चात्परिसर्पन्तिनाग्रगामिनोभवन्ति, अपि तु तत्रैवाग्न्यादिसम्भ्रमे विनश्यन्ति, एवं तेऽपि शीतलविहारिणो मोक्षं प्रति प्रवृत्ता अपि तु न मोक्षगतयो भवन्ति अपितु तस्मिन्नेव संसारे अनन्तमपि कालं यावदासत इति ॥ मू. (२३०) इहमेगे उ भासंति, सातं सातेण विज्जती।
जे तत्थ आरियं मग्गं, परमंच समाहिए । वृ.मतान्तरं निराकर्तुंपूर्वपक्षयितुमाह-'इहे तिमोक्षगमनविचारप्रस्तावे एके' शाक्यादयः स्वयूथ्या वा लोचादिनोपतप्ताः, तुशब्दः पूर्वस्मात् शीतोदकादिपरिभोगाद्विशेषमाह, 'भाषन्ते' ब्रुवते मन्यन्ते वा क्वचित्पाठः, किं तदित्याह ‘सातं' सुखं ‘सातेन’ सुखेनैव विद्यते' भवतीति, तथा च वक्तारो भवन्ति॥१॥ “सर्वाणि सत्त्वानि सुखे रतानि, सर्वाणि दुःखाञ्च समुद्विजन्ते ।
तस्मात्सुखार्थी सुखमेव दद्यात्, सुखप्रदाता लभते सुखानि॥ युक्तिरप्येवमेव स्थिता, यतः कारणानुरूपंकार्यमुत्पद्यते, तद्यथा-शालिबीजाच्छाल्यङ्कुरोजायतेन यवाङ्कुर इत्येवमिहत्यात् सुखान्मुक्तिसुखमुपजायते, नतुलोचादिरूपात् दुःखादिति, तथा ह्यागमोऽप्येवमेव व्यवस्थितः॥१॥ "मणुण्णं भोयणं भोच्चा, मणुण्णं सयणासणं ।
मणुण्णंसि अगारंसि, मणुण्णं झायए मुनी ।। (तथा) ॥१॥ “मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चापराह्ने ।
द्राक्षाखण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः ।। इत्यतो मनोज्ञाहारविहारदेश्चित्तस्वास्थ्यं ततः समाधिरुत्पद्यते समाधेश्च मुक्त्यवाप्ति, ये Jain Education International
For Private & Personal Use Only
www.jainelibrary.org