SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं. ३, उद्देशकः - ३ १०५ वृ. अपिच रागश्च प्रीतिलक्षणो द्वेषश्च तद्विपरीतलक्षणस्ताभ्यामभिभूत आत्मा येषां परतीर्थिका-नांतेतथा, 'मिथ्यात्वेन' विपर्यस्तावबोधेनातत्वाध्यवसायरूपेण अभिद्रुता' व्याप्ताः सधुक्तिभिवदिं कर्तुमसमर्था क्रोधानुगा 'आक्रोशान्' असभ्यवचनरूपांस्था दण्डमुष्टयादिमिश्च हननव्यापारं यान्ति' आश्रयन्ते। अस्मिन्नेवार्थे प्रतिपाद्ये दृष्टान्तमाह-यथा 'टङ्कणा' म्लेच्छविशेषा दुर्जया यदा परेणबलिना स्वानीकादिनाऽभिद्रूयन्ते तदातेनानाविधैरप्यायुधैर्योद्धुमसमर्था सन्तः पर्वतं शरणमाश्र-यन्ति, एवं तेऽपि कुतीर्थिका वादपराजिताः क्रोधाद्युपहतदृष्टय आक्रोशादिकं शरणमाश्रयन्ते, न च ते इदमाकलय्य प्रत्याक्रोष्टव्याः, तद्यथा॥१॥ “अक्कोसहणणमारणधम्मब्भंसाण बालसुलभाणं । लाभं मन्नइ धीरो जहुत्तराणं अभावंभि ।। किञ्चान्यत्मू. (२२२) बहुगुणप्पगप्पाइं, कुजा अत्तसमाहिए। जेणऽन्ने नो विरुज्झेजा, तेण तं तं समायरे ॥ वृ. 'बहवो गुणाः' स्वपक्षसिद्धिपरदोषोद्भावनादयो माध्यस्थ्यादयो वा प्रकल्पन्तेप्रादुर्भवन्त्यात्मनि येष्वनुष्ठानेषु तानि बहुगुणप्रकल्पानि-प्रतिज्ञाहेतुष्टान्तोपनयनिगमनादीनि माध्यस्थ्यवचनप्रकाराणि वा अनुष्ठानानि साधुर्वादकाले अन्यदा वा 'कुर्यात्' विदध्यात्, स एव विशिष्यते-आत्मनः ‘समाधि' चित्तस्वास्थ्यं यस्य स भवत्यात्मसमाधिकः, एतदुक्तं भवति। येन येनोपन्यस्तेन हेतुदृष्टान्तादिनाआत्मसमाधि-स्वपक्षसिद्धिलक्षणोमाध्यस्थ्यवचनादिना वापरानुपघातलक्षणः समुत्पद्यतेतत्तत्कुर्यादिति, तथायेनानुष्ठितेन वाभाषितेन वाअन्यतीर्थिको धर्मश्रवणादौ वाऽन्यः प्रवृत्तो ‘न विरुध्येत' न विरोधं गच्छेत्, तेनपराविरोधकारणेन तत्तदविरुद्धनुष्ठानं वचनं वा 'समाचरेत्' कुर्यादिति । मू. (२२३) इमं च धम्ममादाय, कासवेण पवेइयं । कुजा भिक्खू गिलाणस्स, अगिलाए समाहिए। वृ. तदेवं परमतं निराकृत्योपसंहारद्वारेण स्वमतस्थापनायाह-'इम' मिति वक्ष्यमाणं दुर्गतिधारणाद्धर्मम् ‘आदाय' उपादाय गृहीत्वा 'काश्यपेन' श्रीमन्महावीरवर्द्धमानस्वामिनोत्पन्नदिव्यज्ञानेन सदेवमनुजायांपर्षदि प्रकर्षण-यथावस्थितार्थनिरूपणद्वारेण वेदितंप्रवेदितं, चशब्दात्परमतं च निराकृत्य, भिक्षणशीलो भिक्षु 'ग्लानस्य' अपटोरपरस्य भिक्षोर्वैयावृत्त्यादिकं कुर्यात्, कथं कुर्याद् ? एतदेव विशिनष्टि-स्वतोऽप्यग्लानतया यथाशक्ति ‘समाहितः' समाधि प्राप्त इति, इदमुक्तं भवति-यथा यथाऽऽत्मनः समाधिरुत्पद्यते न तत्करणेन अपाटवसंभवात् योगा विषीदन्तीति, तथा यथा तस्य च ग्लानस्य समाधिरुत्पद्यते तथा पिण्डपातादिकं विधेयमिति मू. (२२४) संखाय पेसलं धम्म, दिट्ठिमं परिनिव्वुडे । ___उवसग्गे नियामित्ता, आमोक्खाए परिव्वएजाऽसि । त्तिबेमि ।। वृ. किं कृत्वैतद्विधेयमिति दर्शयितुमाह-'संखाये' त्यादि, संख्याय-ज्ञात्वा कं ? -'धर्म' सर्वज्ञप्रणीतं श्रुतचारित्राख्यभेदभिन्नं 'पेशलम्' इति सुश्लिष्टं प्राणिनामहिंसादिप्रवृत्त्याप्रीतिकारणं, किम्भूतमिति दर्शयति-दर्शनं दृष्टिः सद्भूतपदार्थगता सम्यग्दर्शनमित्यर्थ सा विद्यते यस्यासौ दृष्टिमान् यथावस्थितपदार्थपरिच्छेदवानित्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003306
Book TitleAgam Suttani Satikam Part 02 Sutrakrutang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages484
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy