________________
उपोद्घात् नियुक्तिः कासिकं, आदिग्रहणादण्डजवालजादेर्ग्रहणं, भावसूत्रंतु इह' अस्मिन्नधिकारे सूचकं ज्ञानंश्रुतज्ञानमित्यर्थ, तस्यैव स्वपरार्थसूचकत्वादिति । तच्च श्रुतज्ञानसूत्रं चतुर्द्धा भवति, तद्यथासंज्ञासूत्रं संग्रहसूत्रं वृत्तनिबद्धं जातिनिबद्धं च, तत्र संज्ञासूत्रं यत् स्वसंकेतपूर्वकं निबद्धं ।
तद्यथा-"जे छेए सागारियं न सेवे, सव्वामगंधं परिन्नाय निरामगंधो परिव्वए" इत्यादि, तथा लोकेऽपि-पुद्गलाः संस्कारः क्षेत्रज्ञा इत्यादि । संग्रहसूत्रं तु यत्प्रभूतार्थसंग्राहकं, तद्यथाद्रव्यमित्याकारिते समस्तधर्माधर्मादिद्रव्यसंग्रह--इति, यदिवा ‘उत्पादव्ययध्रौव्ययुक्तं सदिति, वृत्तनिबद्धसूत्रं पुनर्यदनेकप्रकारया वृत्तजात्या निबद्धं तद्यथा
बुद्धिज्जत्ति तिउट्टिजेत्यादि, जातिनिबद्धं तु चतुर्द्धा, तद्यथा-कथनीयं कथ्यमुत्तराध्य यनज्ञाताधर्मकथादि, पूर्वर्षिचरितकथानकप्रायत्वात्तस्य, तथा गद्यं ब्रह्मचर्याध्ययनादि, तथा पद्यं-छन्दोनिबद्धं, तथा गेयं यत् स्वरसंचारेण गीतिकापायनिबद्धं, तद्यथा कापिलीयमध्ययने 'अधुवेअसासयंमिसंसारंभिदुक्खपउराए' इत्यादि । इदानीं कृतपदनिक्षेपार्थं नियुक्तिकृद्गाथामाहनि. [४] करणं च कारओ य कडं च तिण्हंपि छक्कनिक्खेवो।
दव्वे खित्ते काले भावेण उ कारओ जीवो।। वृ. इह कृतमित्यनेन कर्मोपात्तं, न चाकर्तृकं कर्म भवतीत्यर्थात्कर्तुराक्षेपो धात्वर्थस्य च करणस्य, अमीषां त्रयाणामपि प्रत्येकं नामादि षोढा निक्षेपः, तत्र गाथापश्चार्द्धनाल्पवक्तव्यत्वात्तावत्करणमतिक्रम्य कारकस्य निक्षेपमाह, तत्र नामस्थापने प्रसिद्धत्वादनाहत्य द्रव्यादिकं दर्शयति ।
‘दव्वे' इति द्रव्यविषये कारकश्चिन्त्यः, स च द्रव्यस्य द्रव्येण द्रव्यभूतो वा कारको द्रव्यकारकः, तथा क्षेत्रे भरतादौ यः कारको यस्मिन् वा क्षेत्रे कारको व्याख्यायते स क्षेत्रकारकः, एवं कालेऽपि योज्यम्, 'भावेन तु' भावद्वारेण चिन्त्यमानो जीवोऽत्र कारको, यस्मात्सूत्रस्य गणधरः कारकः, एतश्च नियुक्तिकृदेवोत्तरत्र वक्ष्यति 'ठिइ अनुभावे' त्यादौ साम्प्रतं करणव्याचिख्यासया नामस्थापने मुक्त्वा द्रव्यादिकरणनिक्षेपार्थं नियुक्तिकृदाहनि. [५] दव्वं पओगवीसस पओगसा मूल उत्तरे चेव।
उत्तरकरणं वंजण अत्थो उ उवक्खरो सव्वो॥ वृ. 'द्रव्ये' द्रव्यविषये करणं चिन्त्यते, तद्यथा-द्रव्यस्य द्रव्येण द्रव्यनिमित्तं वा करणम्अनुष्ठानं द्रव्यकरणं, तत्पुनर्द्विद्याप्रयोगकरणं विनसाकरणं च, तत्र प्रयोगकरणं पुरुषादिव्यापारनिष्पाद्यं, तदपि द्विविध-मूलकरणमुत्तकरणं च, तत्रोत्तरकरणं गाथापश्चार्द्धन दर्शयति
उत्तरत्रकरणमुत्तरकरणं-कर्णवेधादि, यदिवा तन्मूलकरणं घटादिकं येनोपस्करणदण्डचक्रादिना अभिव्यज्यते-स्वरूपतः प्रकाश्यतेतदुत्तरकरणं, कर्तुरुपकारकः सर्वोऽप्युपस्कारार्थ इत्यर्थः । पुनरपि प्रपञ्चतो मूलोत्तरकरणे प्रतिपादयितुमाहनि. [६] मूलकरणं सरीराणि पंच तिम कण्णखंधमादीयं ।
दबिंदियाणि परिणामियाणि विसओसहादीहिं॥ __ वृ.मूलकरणमौदारिकादीनि शरीरणि पञ्च, तत्र चौदारिकवैक्रियाहारकेषु त्रिषूत्तरकरणं कर्णस्कन्धादिकं विद्यते, तथाहि-- ‘सीसमुरोयर पिट्ठी दो बाहू उचचा य अटुंग'त्ति त्रयाणामप्येतन्निष्पत्तिर्मूलकरणं, कर्णस्कन्धाद्यङ्गोपाङ्गनिष्पत्तिस्तूत्तरकरणं, कार्मणतैजसयोस्तु
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only