________________
श्रुतस्कन्धः - २, चूडा-२, सप्तैकक-६
४२९
- से सिया परो अंकंसि वा २ तुयट्टावित्ता हारं वा अद्धहारं वा उरत्थं वा गेवेयं वा मउडं वा पालंबं वा सुवनसुत्तं वा आविहिज्ज वा पिणहिज्ज वा नो तं० २ ।
-से० परो आरामंसि वा उज्जाणंसि वा नीहरित्ता वा पविसित्ता वा पायाइं आमज्जिज्ज वा प० नो तं साइए ॥ एवं नेयव्वा अन्नमन्नकिरियावि ॥
नृ. पर - आत्मनो व्यतिरिक्तोऽन्यस्तस्य क्रिया- चेष्टा कायव्यापाररूपा तां परक्रियाम् 'आध्यात्मिकीम्' आत्मनि क्रियमाणां, पुनरपि विशिनष्टि- 'सांश्लेषिकीं' कर्मसंश्लेषजननीं 'नो' नैव 'आस्वादयेत्' अभिलषेत्, मनसा न तत्राभिलाषं कुर्यादित्यर्थ, तथा न तां परक्रियां 'नियमयेत्' कारयेद्वाचा, नापि कायेनेति । तां च परक्रियां विशेषतो दर्शयति
'से' तस्य साधोर्निष्प्रतिकर्मशरीरस्य सः 'परः' अन्यो धर्मश्रद्धया पादौ रजोऽवगुण्ठितौ आमृज्यात् कर्पटादिना, वाशब्दस्तूत्तरपक्षापेक्षः, तन्नास्वादयेन्नापि नियमयेदिति, एवं स साधुस्तं परं पादौ संबाधयन्तं मर्दयन्तं वा स्पर्शयन्तं-रञ्जयन्तं, तथा तैलादिना भ्रक्षयन्तमभ्यञ्जयन्तं वा, तथा लोध्रादिना उद्वर्त्तनादि कुर्वन्तं, तथा शीतोदकादिना उच्छोलनादि कुर्वाणं, तथाऽन्यतरेण सुगन्धिद्रव्येणालिम्पन्तं, तथा विशिष्टधूपेन धूपयन्तं, तथा पादात्कण्टकादिकमुद्धरन्तम्, एवं शोणितादिकं निस्सारयन्तं 'नास्वादयेत्' मनसा नाभिलषेत् नापि नियमयेत् कारयेद्वाचा कायेनेति शेषानि कायव्रणगतादीनि आरामप्रवेशनिष्क्रमणप्रमार्जनसूत्रं यावदुत्तानार्थानि ॥ एवममुमेवार्थमुत्तरसप्तकेऽपि तुल्यत्वात्सङ्क्षेपरुचि सूत्रकारोऽतिदिशति 'एवम्' इति याः पूर्वोक्ताः क्रिया-रजःप्रमार्जनादिकास्ताः 'अन्योऽन्यं' परस्परतः साधुना कृतप्रतिक्रियया न विधेया इत्येवं नेतव्योऽन्योऽन्यक्रियासप्तैकक इति ॥
मू. (५०७) से सिया परो सुद्धेणं असुद्धेणं वा वइबलेण वा तेइच्छं आउट्टे से० असुद्धेणं वइबलेणं तेइच्छं आउट्टे ।
- से सिया परो गिलाणस्स सचित्ताणि वा कंदाणि वा मूलाणि वा तयाणि वा हरियाणि वा खणित्तु कड्ढित्तु वा कड्ढावित्तु वा तेइच्छं आउट्टाविज्ज नो तं सा० २ कडुवेयणा पाणभूयजीवसत्ता वेयणं वेइंति, एयं खलु० समिए सया जए सेयमिणं मन्निज्जासि-त्तिबेमि ॥
वृ. 'से' तस्य साधोः स परः शुद्धेनाशुद्धेन वा 'वाग्बलेन' मन्त्रादिसामर्थ्येन चिकित्सा व्याध्युपशमम् 'आउट्टे 'त्ति कर्तुमभिलषेत् । तथा स परो ग्लानस्य साधोश्चिकित्सार्थं सचित्तानि कन्दमूलादीनि 'खनित्वा' समाकृष्य स्वतोऽन्येन वा खानयित्वा चिकित्सां कर्त्तुमभिलषेत् तच्च 'नास्वादयेत्' नाभिलषेन्मनसा, एतच्च भावयेत् ।
इह पूर्वकृतकर्मफलेश्वरा जीवाः कर्मविपाककृतकटुकवेदनाः कृत्वा परेषां शारीरमानसा वेदनाः स्वतः प्राणिभूतजीवसत्त्वास्तत्कर्मविपाकजां वेदनामनुभवन्तीति, उक्तञ्च ।
॥ १ ॥ पुनरपि सहनीयो दुःखपाकस्तवायं, न खलु भवति नाशः कर्मणां सञ्चितानाम् । इति सहगणयित्वा यद्यदायाति सम्यक्, सहसदिति विवेकोऽन्यत्र भूयः कुतस्ते ॥ शेषमुक्तार्थं यावदध्ययनपरिसमाप्तिरिति ॥ चूडा-२ सप्तैककः - ६ समाप्तः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org