________________
४०८
आचाराङ्ग सूत्रम् २/१/५/२/४८३
- अध्ययन-५ उद्देशकः-२:वृ. उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके वस्त्रग्रहणविधिरभिहितस्तदनन्दरंधरणविधिरभिधीयते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्
मू. (४८३) से भिक्खू वा० अहेसणिज्जाई वत्थाई जाइज्जा अहापरिग्गहियाई वत्थाई धारिज्जा नोधोइज्जा नोरएज्जानो धोयरत्ताइवत्थाइंधारिजा अपलिउंचमाणोगामंतरेसु० ओमचेलिए, एयं खलु वत्थधारिस्स समाग्गियं ।
सेभि० गाहावइकुलपविसिउकामेसव्वंचीवरमायाए गाहावइकुलंनिक्खमिज्जवा पविसिज वा, एवं बहिय विहारभूमिं वा वियारभूमिं वा गामाणुगामंवा दूइजिजा, अह पु० तिव्वदेसियं वा वासं वासमाणं पेहाए जहा पिंडेसणाए नवरं सव्वं चीवरमायाए॥
वृ.स भिक्षु यथैषणीयानि' अपरिकर्माणिवस्त्राणियाचेत्यथापरिगृहीतानिचधारयेत्, न तत्र किञ्चित्कुर्यादिति दर्शयति, तद्यथा-न तद्वस्त्रं गृहीतं सत् प्रक्षालयेत् नापि रञ्जयेत् तथा नापि बाकुशिकतया धौतरक्तानि धारयेत्, तथाभूतानि न गृह्णीयादित्यर्थ, तथाभूताधौतारक्तवस्त्रधारी च ग्रामान्तरे गच्छन् ‘अपलिउंचमाणे'त्ति अगोपयन् सुखेनैव गच्छेद्, यतोऽसौ।
'अवमचेलिकः' असारवस्त्रधारी, इत्येतत्तस्य भिक्षोर्वस्त्रधारिणः ‘सामध्यं’ सम्पूर्णो भिक्षुभावः यदेवंभूतवस्त्रधारणमिति, एतञ्च सूत्रजिनकल्पिकोद्देशेनद्रष्टव्यं, वस्त्रधारित्वविशेषणाद् गच्छान्तर्गतेऽपि चाविरुद्धमिति ।। किञ्च-से इत्यादि पिण्डैषणावन्नेयं, नवरं तत्र सर्वमुपधिम्, अत्र तु स सर्वंचीवरमादायेति विशेषः ।। इदानीं प्रातिहारिकोपहतवस्त्रविधिमधिकृत्याह
मू. (४८४) से एगइओ मुहुत्तगं २ पाडिहारियं वत्थं जाइजा जाव एगाहेण वा दु० ति० चउ० पंचाहेण वा विप्पवसिय २ उवागच्छिज्जा, नो तह वत्थं अप्पणो गिण्हिज्जा नो अन्नमन्नस्स दिजा, नो पामिचं कुजा, नो वत्थेण वत्थपरिणामं करिजा, नो परं उवसंकमित्ता एवं वइजाआउ० समणा! अभिकखसि वत्थंधारित्तए वा परिहरित्तए वा?, थिरंवा संतं नो पलिच्छिंदिय २ परट्टविजा, तहप्पगारंवत्थं ससंधियं वत्थं तस्स चेव निसिरिज्जा नो णं साइजिजा।
से एगइओ एयप्पगारंनिग्घोसंसुच्चा नि० जे भयंतारोतहप्पगाराणिवत्थाणि ससंधियाणि मुहत्तगं २ जावएगाहेण वा० ५ विप्पवसिय २ उवागच्छंति, तह० वत्थाणि नो अप्पणां गिण्हति नो अन्नमन्नस्स दलयंति तं चेव जाव नो साइजंति, बहुवयणेण भाणियव्वं, से हंता अहमवि मुहुत्तगंपाडिहारियंवत्थंजाइत्ता जावएगाहेण वा ५ विप्पवसिय २ उवागच्छिस्सामि, अवियाई एयं ममेव सिया, माइट्ठाणं संफासे नो एवं करिज्जा ।
वृ. स कश्चित्साधुरपरं साधुं मुहूर्तादिकालोद्देशेन प्रातिहारिकं वस्त्रं याचेत, याचित्वा चैकाक्येव ग्रामान्तरादौ गतः, तत्र चासावेकाहं यावत्पञ्चाहं वोषित्वाऽऽगतः, तस्य चैकाकित्वात्स्वपतो वस्त्रमुहपतं, तच्च तथाविधं वस्त्रंतस्य समर्पयतोऽपि वस्त्रस्वामीन गृह्णीयात्, नापिगृहीत्वाऽन्यस्मैदद्यात्, नाप्युच्छिन्नं दद्याद्, यथा गृहाणेदं, न्वंपुनः कतिभिरहोभिर्ममान्यद्दद्यात्, नापि तदैव वस्त्रैण परिवर्तयेत्, न चापरं साधुमुपसंक्रम्यैतद्वदेत्, तद्यथा-आयुष्मन् ! श्रमण ! 'अभिकाङ्क्षसि’ इच्छस्येवंभूतं वस्त्र धारयितुं परिभोक्तुं चेति?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org