________________
३९४
आचाराङ्ग सूत्रम् २/१/३/३/४६४ खलु विहंसि बहवे आमोसगा उवगरणपडियाए संपिंडिया गच्छिज्ज, नो तेसिं भीओ उम्मग्गेण गच्छिज्जा जाव समाहीए तओ संजयामेव गामाणुगामं दूइजेज्जा ॥
वृ. स भिक्षुग्रमान्तरं गच्छन् यद्यन्तराले 'गां' वृषभं 'व्यालं' दर्पितं प्रतिपथे पश्येत् तथा सिंहं व्याघ्रं यावच्चित्रकं तदपत्यं वा व्यालं क्रूरं दृष्ट्वा च तद्भयान्नैवोन्मार्गेण गच्छेत्, न च गहनादिक- मनुप्रविशेत्, नापि वृक्षादिकमारोहेत्, न चोदकं प्रविशेत्, नापि शरणमभिकाङ्क्षत्, अपि त्वल्पोत्सु - कोविमनस्कः संयत एव गच्छेत्, एतच्च गच्छनिर्गतैर्विधेयं गच्छान्तर्गतास्तु व्यालादिकं परिहरत्यपीति । किञ्च
'से' तस्य भिक्षोर्ग्रामान्तराले गच्छतः 'विहं' ति अटवीप्रायो दीर्घोऽध्वा भवेत्, तत्र च 'आमोषकाः ' स्तेनाः 'उपकरणप्रतिज्ञया' उपकरणार्थिनः सागच्छेयुः, न दद्भयादुन्मार्गगमनादि कुर्यादिति ।।
मू. (४६५) से भिक्खू वा० गा० दू० अंतरा से आमोसगा संपिंडिया गच्छिज्जा, ते णं आ० एवं वइज्जा - आउ० स० ! आहर एयं वत्थं वा ४ देहि निक्खिवाहि, तं नो दिज्जा निक्खिविज्जा, नो वंदिय २ जाइज्जा, नो अंजलिं कट्टु जाइज्जा, नो कलुणपडियाए जाइज्जा, धम्मियाए जायणाए जाइज्जा, तुसिणीयभावेण वा ते णं आमोसगा सयं करणिजंतिकट्टु अक्कोसंति वा जाव उद्दविंति वा वत्थं वा ४ अच्छिंदिज्ज वा जाव परिट्ठविज्ज वा, तं नो गामसंसारियं कुज्जा, नो रायसंसारियं कुज्जा, नो परं उवसंकमित्तु बूया
आउसंतो ! गाहावई एए खलु आमोसगा उवगरणपडियाए सयंकरणिज्जंतिकडु अक्कोसंति वा जाव परिट्ठवंति वा, एयप्पगारं मणं वा वायं वा नो पुरओ कड्ड विहरिज्जा, अप्पुस्सुए जाव समाहीए तओ संजयामेव गामा० दूइ० ॥ एयं खलु० सया जइ० त्तिबेमि ।
वृ. भिक्षुर्ग्रामान्तरे गच्छन् यदि स्तेनैरुपकरणं याच्येत तत्तेषा न समर्पयेत्, बलादृह्णतां भूमौ निक्षिपेत्, नच चौरगृहीतमुपकरणं वन्दित् दीनं वा वदित्वा पुनर्याचेत, अपितु धर्मकथनपूर्वकं गच्छान्तर्गतो याचेत तूष्णीभावेन वोपेक्षेत्, ते पुनः स्तेनाः स्वकरणीयमितिकृत्वैतत्कुर्युः ।
तद्यथा-आक्रोशन्ति वाचा ताडयन्ति दण्डेन यावज्जीवितात्त्याजयन्ति, वस्त्रादिकं वाऽऽच्छिन्द्युर्यावत्तत्रैव 'प्रतिष्ठापयेयुः' त्यजेयुः तच्च तेषामेवं चेष्टितं न ग्रामे 'संसारणीयं' कथनीयं, नापि राजकुलादौ, नापि परं गृहस्थमुपसंक्रम्य चौरचेष्टितं कथयेत्, नाप्येवंप्रकारं मनो वाचं वा सङ्कल्प्यान्यत्र गच्छेदिति, एतत्तस्य भिक्षोः सामग्र्यम् ॥
चूडा-१ अध्ययनं -३ उद्देशकः-३ समाप्तः
अध्ययनं - ३ समाप्तम्
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता शीलाङ्काचार्य विरचिता द्वीतीय श्रुतस्कन्धस्य तृतीयअध्ययनटीका परिसमाप्ता ।
अध्ययनं ४ भाषाजातम्
वृ. उक्तं तृतीयमध्ययनं साम्प्रतं चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने पिण्डविशुद्धयर्थं गमनविधिरुक्तः, तत्र च गतेन पथि वा यादृग्भूतं वाच्यं न वाच्यं वा, अनेन च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org