________________
३७१
श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-२, उद्देशक: दिकं यत्तथाभूतेऽन्तरिक्षजाते प्रतिश्रये स्थानादिन विधेयमिति ॥ अपिच
मू. (४०१) से भिक्खू वा० से जं० सइत्थियं सखुडं सपसुभत्तपाणं तहप्पगारे सागारिए उवस्सए नो ठाणं वा ३ चेइज्जा । आयाणमेयं भिक्खुस्स गाहावइकुलेण सद्धिं संवसमाणस्स अलसगे वा विसूइया वा छड्डी वा उव्वाहिज्जा अन्नयरे वा।
से दुक्खे रोगायंके समुपजिजा, अस्संजए कलुणपडियाए तं भिक्खुस्सं गायं तिल्लेण वा घएण वा नवनीएण वा वसाए वा अमंगिज वा मक्खिज्ज वा सिणाणेण वा कक्केण वा लुद्धेण वा वण्णेण वा चुण्णेण वा पउमेण वा आघंसिजवा पघंसिज्ज वा उव्वलिज वा उव्वट्टिजवासीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलिज्ज वा पक्खालिज्ज वा सिणाविज वा सिंचिज वा दारुणा वा दारुपरिणामंक? अगनिकायं उज्जालिज्ज वा पज्जालिज्ज वा उज्जालित्ताकायं आयाविज्जा वा प०।
अह भिक्खूणं पुव्वोवइट्ठा० जंतहप्पगारे सागारिए उवस्सए नो ठाणं वा ३ चेइज्जा ।।
वृ.स भिक्षुर्यं पुनरेवंभूतमुपाश्रयं जानीयात् तद्यथा-यत्र स्त्रियं तिष्ठन्तीं जानीयात्, तथा 'सखुडु'न्ति सबालं, यदिवासह क्षुदैरवबद्धः-सिंहश्वमार्जारादिभिर्योवर्तते, तथपशवश्चभक्तपाने च, यदिवा पशूनां भक्तपाने तद्युक्तं, तथाप्रकारे सागारिके गृहस्थाकुलप्रतिश्रये स्थानादि न कुर्याद्, यतस्तत्रामी दोषाः, तद्यथा-आदानं कर्मोपादानमेतद्, भिक्षोर्गृहपतिकुटुम्बेन सह संवसतो यतस्तत्र भोजनादिक्रिया निशङ्का न संभवति, व्याधिविशेषो वा कश्चित्संभवेदिति दर्शयति
'अलसगे'त्ति हस्तपादादिस्तम्भः श्वयथुर्वा, विशूचिकाछर्दी प्रतीते, एते व्याधयस्तं साधुमुद्बाधेरन्, अन्यतराद्वादुःखं 'रोगः' ज्वरादि आतङ्कः' सद्यः प्राणहारीशूलादिस्तत्रसमुत्पद्येत, तं च तथाभूतं रोगातङ्कपीडितं दृष्टवाऽसंयतः कारुण्येन भक्त्या वा तद्भिक्षुगात्रं तैलादिनाऽभ्यध्यात्तथेषन्नक्षयेद्वापुनश्च स्नान-सुगन्धिद्रव्यसमुदयः, कल्कः-कषायद्रव्यक्वाथः, लोध्र-प्रतीतं, वर्णकः-कम्पिल्लकादि, चूर्णोयवादीनांपद्मकं प्रतीतम्, इत्यादिनाद्रव्येण ईषत्पुनःपुनर्वा घर्षयेत्, घृष्टवा चाभ्यङ्गापनयनार्थमुद्वर्तयेत्, ततश्चशीतोदकेन वा उष्णोदतकेन वा 'उच्छोलेज्जत्ति ईषदच्छोलनं विदध्यात् प्रक्षालयेत्, पुन् पुनः स्नानं वा-सोत्तमाङ्ग कुर्यात्सिञ्चेद्वेति,
तथा दारुणा वा दारूणां परिणामं कृत्वा-संघर्षं कृत्वाऽग्निमुज्वालयेप्रज्वालयेद्वा, तथा चकृत्वासाधुकायम् ‘आतापयेत्' सकृत्प्रतापयेत्पुनःपुनः ।अथसाधूनांपूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यत्तथाभूते ससागारिके प्रतिश्रये स्थानादिकं न कुर्यादिति ।।
मू. (४०२) आयाणमेयं भिक्खुस्स सागारिए उवस्सए संवसमाणस्स इह खलु गाहावई वा जाव कम्मकरी वा अन्नमन्नं अक्कोसंति वा पचंति वा रूंभंति वा उद्दविंति वा, अह भिक्खूणं उञ्चावयं मणं नियंछिज्जा, एए खलु अन्नमन्नं अक्कोसंतु वा मा वा अक्कोसंतु जाव मा वा उद्दविंतु, अह भिक्खूणं पुव्व० जंतहप्पगारे सा० नो ठाणं वा ३ चेइज्जा ॥
वृ. कर्मोपादानमेतद्भिक्षोः ससागारिके प्रतिश्रये वसतो, यतस्तत्र बहवः प्रत्यपायाः संभवन्ति, तानेवदर्शयति-'इह' इत्थंभूते प्रतिश्रये गृहपत्यादयः परस्परत आक्रोशादिकाः क्रियाः कुर्यु, तथा च कुर्वतो दृष्टवा स साधुः कदाचिदुञ्चावचं मनः कुर्यात्, तत्रोञ्चं नाम मैवं कुर्वन्तु, अवचं नाम कुर्वन्त्विति, शेषं सुगममिति॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org