________________
श्रुतस्कन्धः - २, चूडा-१, अध्ययनं - २, , उद्देशक 29
३६९
से जं पुण उवस्सयं जाणिज्जा अस्सि पडियाए एगं साहम्मियं समुद्दिस्स पाणाई ४ समारष्म समुद्दिस्स कीयं पामिश्च अच्छिजं अनिसट्टं अभिहडं आहट्टु चेएइ, तहप्पगारे उवस्सए पुरिसंतरकडे वा जाव अणासेविए वा नो ठाणं वा ३ चेइज्जा । एवं बहवे साहम्मिया एगं साहम्मिणिं बहवे साहम्मिणीओ ।। से भिक्खू वा० से जं पुण उ० बहवे समणवणीमए पगणिय २ समुद्दिस्स तं चेव भाणियव्वं ॥
सेभिक्खू वा० से जं० बहवे समण समुद्दिस्स पाणाई ४ जाव चेएति, तहप्पगारे उवस्सए अपुरिसंतरकडे जाव अणासेविए नो ठाणं वा ३ चेइज्जा ३, अह पुणेवं जाणिज्जा पुरिसंतरकडे जाव सेविए पडिलेहित्ता २ तओ संजयामेव चेइज्जा ।।
से भिक्खू वा से जं पुण अस्संजए भिक्खुपडियाए कडिए वा उक्कं विए वा छन्ने वा लित्ते वा घट्टे वा मट्टे वा संपधुमिए वा तहप्पगारे उवस्सए अपुरिसंतरकडे जाव अणासेविए नो ठाणं वा सेज्जं वा निसीहिं वा चेइज्जा, अह पुण एवं जाणिज्जा पुरिसंतरकडे जाव आसेविए पडिलेहिता २ तओ चेइज्जा ॥
वृ. स भिक्षु 'उपाश्रयं' वसतिमेषितुं यद्यमिकाङ्क्षत्ततो ग्रामादिकमनुप्रविशेत्, तत्र च प्रविश्य साधुयोग्यं प्रतिश्रयमन्वेषयेत्, तत्र च यदि साण्डादिकमुपाश्रयं जानीयात्ततस्तत्र स्थानादिकं न विदध्यादिति दर्शयति-सुगमं, नवरं 'स्थानं' कायोत्सर्गः 'शय्या' संस्तारकः 'निषीधिका' स्वाध्यायभूमि 'नो चेइज्ज' त्ति नो चेतयेत्-नो कुर्यादित्यर्थ ।। एतद्विपरीते तु प्रत्युपेक्ष्य स्थानादीनि कुर्यादिति । साम्प्रतं प्रतिश्रयगतानुद्गमादिदोषान् बिभणिषुराह ।
'सः' भावभिक्षुर्यत्पुनरेवंभूतं प्रतिश्रयं जानीयात्, तद्यथा-'अस्सिंपडियाए' त्ति एतव्प्रतिज्ञया एतान् साधून् प्रतिज्ञाय उद्दिश्य प्राण्युपमर्देन साधुप्रतिश्रयं कश्चिच्छ्राद्धः कुर्यादिति । एतदेव दर्शयति- एकं साधर्मिकं 'साधुम्' अर्हप्रणीतधर्मानुष्ठायिनं सम्यगुद्दिश्य प्रतिज्ञाय प्राणिनः 'समारभ्य' प्रतिश्रयार्थमुपमर्द्य प्रतिश्रयं कुर्यात्, तथा तमेव साधुं सम्यगुद्दिश्य 'क्रीतं' मूल्येनावाप्तं, तथा 'पामिच्चं 'ति अन्यस्मादुच्छिन्नं गृह्णीतम् 'आच्छेद्यमि' ति भृत्यादेर्वलादाच्छिद्य गृहीतम् 'अनिसृष्टं' स्वामिनाऽनुत्सङ्कलितम् ‘अभ्याहृतं' निष्पन्नमेवान्यतः समानीतम्, एवंभूतं प्रतिश्रयम् 'आहृत्य' उपेत्य 'चेएइ' त्ति साधवे ददाति, तथाप्रकारे चोपाश्रये पुरुषान्तरकृतादौ स्थानादि न विदध्यादिति एवं बहुवचनसूत्रमपि नेयम् ।। तथा साध्वीसूत्रमप्येकवचनबहुवचनाम्यां नेयमिति ॥ किञ्च -सूत्रद्वयं पिण्डैषणानुसारेण नेयं, सुगमंच ॥ तथा
स भिक्षुर्यत्पुनरेवंभूतंप्रतिश्रयं जानीयात्, तद्यथा-भिक्षुप्रतिज्ञया 'असंयतः' गृहस्थः प्रतिश्रयं कुर्यात्, स चैवंभूतः स्यात्, तद्यथा-'कटकितः' काष्ठादिभि कुड्यादौ संस्कृतः 'उक्कं बिओ'त्ति वंशादिकम्वाभिरवबद्ध ‘छन्नेव 'त्ति दर्भादिभिश्छादितः लिप्तः गोमयादिना धृष्टः सुधादिखरपिण्डेन मृष्टः स एव लेवनिकादिना समीकृतः 'संसृष्ट:' भूमिकर्मा दिना संस्कृतः 'संप्रधूपितः ' दुर्गन्धापनयनार्थं धूपादिना धूपितः, तदेवंभूते प्रतिश्रयेऽपुरुषान्तरस्वीकृते यावदनासेविते स्थानादि न कुर्यात्, पुरुषान्तरकृतासेवितादौ प्रत्युपेक्ष्य स्थानादि कुर्यादिति ।।
मू. (३९९) से भिक्खूं वा० से जं० पुण उवस्सयं जा अस्संजए भिक्खुपडियाए खुडियाओ दुवारियाओ महल्लियाओ कुज्जा, जहा पिंडेसणाए जाव संथारगं संथारिज्जा बहिया वा निन्नक्खु
124
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org