SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३६४ आचाराङ्ग सूत्रम् २/१/१/११/३९४ वृ. भिक्षामटन्ति भिक्षाटाः भिक्षणशीलाः साधव इत्यर्थ, नामशब्दः सम्भावनायां, वक्ष्यमाणमेषां संभाव्यते, 'एके' केचन एवमाहुं-साधुसमीपमागत्य वक्ष्यमाणमुक्तवन्तः, तेच साधवः समानावा' सम्भोगिकाभवेयुः,वाशब्दादसाम्भोगिका वा, तेऽपिच 'वसन्तः' वास्तव्या अन्यतो वा ग्रामादेः समागता भवेयुः, तेषु च कश्चित्साधुः ‘ग्लायति' ग्लानिमनुभवति, तत्कृते तान् सम्भोगिकादींस्ते भिक्षाटा मनोज्ञभोजनलाभे सत्येवमाहुरिति सम्बन्धः, से' इति एतन्मनोज्ञमाहारजातं 'हन्दह' गृह्णीत यूयं णम्' इति वाक्यालङ्कारे 'तस्य' ग्लानस्य आहारत' नयत, तस्मै प्रयच्छत इत्यर्थ, ग्लानश्चेन्न भुङ्के ग्राहक एवाभिधीयते। त्वमेव भुङक्ष्वेति, स च भिक्षुर्भिक्षोर्हस्ताद् ग्लानार्थं गृहीत्वाऽऽहारं तत्राध्युपपन्नः सन्नेक एवाहं भोक्ष्य इतिकृत्वा तस्य ग्लानस्य ‘पलिउंचिअपलिउंचिय'त्ति मनोज्ञं गोपित्वा गोपित्वा वातादिरोगमुद्दिश्य तथा तस्य आलोकयेत्' दर्शयति यथाऽपथ्योऽयं पिण्ड इति बुद्धिरुत्पद्यते, तद्यथा-अग्रतो ढौकयित्वा वदति-अयं पिण्डो भवदर्थं साधुना दत्तः, किन्त्वयं 'लोए'त्ति रूक्षः, तथा तिक्तः कटुः कषायोऽम्लो मधुरो वेत्यादि दोषदुष्टत्वान्नातः किञ्चिद् ग्लानस्य 'स्वदतीति' उपकारेन वर्तत इत्यर्थ, एवंचमातृस्थानं संस्पृशेत्, न चैतत्कुर्यादिति । यथा च कुर्यात्तद्दर्शयतितथाऽवस्थितमेव ग्लानस्यालोकयेद्यथाऽवस्थितमिति, एतदुक्तं भवति-मातृस्थानपरित्यागेन यथाऽवस्थितमेव ब्रूयादिति, शेषं सुगमम् ॥तथा- . मू. (३९५) भिक्खागा नामेगे एव माहंसु-समाणे वा वसमाणे वा गामाणुगामंदूइजमाणे वा मणुनं भोयणजायं लभित्ता से य भिक्खू गिलाइ से हंदह णं तस्स आहरह, से य भिक्खू नो भुंजिज्जा आहारिजा, सेणं नो खलु मे अंतराए आहरिस्सामि, इञ्चैयाइं आयतणाइंउवाइक्कम्म॥ वृ. 'भिक्षादाः' साधवो मनोज्ञमाहारं लब्ध्वा समनोज्ञांस्तांश्च वास्तव्यान् प्राघूर्णकान् वा ग्लानमुद्दिश्यैवमूचुः-एतन्मनोज्ञमाहारजातं गृहीत यूयं ग्लानाय नयत, स चेन्न भुङ्कते ततोऽस्मदन्तिकमेव ग्लानाद्यर्थम् ‘आहरेत्' आनयेत्, स चैवमुक्तः सन्नैवं वदेद्-यथाऽन्तरायमन्तरेणाहरिष्यामीति प्रतिज्ञयाऽऽहारमादाय ग्लानान्तिकं गत्वा प्राक्तनान् भक्तादिरूक्षादिदोषानुद्घाट्यग्लानायादत्वा स्वतएवलौल्याद्भुक्त्वा ततस्तस्यसाधोर्निवेदयति __ यथा ममशूलं वैयावृत्त्यकालापर्याप्त्यादिकमन्तरायिकमभूदतोऽहंतद् ग्लानभक्तंगृहीत्वा नायात इत्यादि मातृसंस्थानं संस्पृशेत्, एतदेव दर्शयतिइत्येतानि-पूर्वोक्तान्यायतनानिकर्मोपादानस्थानानि 'उपातिक्रम्य' सम्यक् परिहृत्य मातृस्थानपरिहारेण ग्लानाय वा दद्यादातृसाधुसमीपं वाऽऽहरेदिति ॥ पिण्डाधिकार एव सप्तपिण्डैषणा अधिकृत्य सूत्रमाह मू. (३९६) अह भिक्खू जाणिज्जा सत्त पिंडेसणाओ सत्त पाणेसणाओ, तत्थ खलु इमा पढमा पिंडेसणा-असंसढे हत्थे असंसट्टे मत्ते, तहप्पगारेण असंसट्टेण हत्थेण वा मत्तेण वा असणं वा ४ सयं वा णंजाइज्जा परो वा से दिज्जा फासुयं पडिगाहिज्जा, पढमा पिंडेसणा। अहावरा दुश्चा पिंडेसणा-संसढे हत्थे संसढे मत्ते, तहेव दुचा पिंडेसणा। अहावरातचा पिंडेसणा-इह खलु पाईणंवा ४ संतेगइया सड्ढा भवंति-गाहावईवा जाव कम्मकरी वा, तेसिंचणं अन्नयरेसु विरुवरुवेसुभायणजाएसु उवनिक्खित्तपुव्वे सिया, तंजहाथालंसि वा पिढरंसि वा सरगंसि वा परगंसि वा वरगंसि वा, अह पुणेवं जाणिज्जा-असंसढे हत्थे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy