SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं -१, उद्देशक: ३६१ सम्भोगिकाः समनोज्ञा अपरिहारिका एकार्थाश्चालापकाः, इत्येतेषु सत्स्वदूरगतेषु वा ताननापृच्छय प्रमादितया परिष्ठापयेत्' परित्यजेत्, एवं च मातृस्थानं संस्पृशेत्, नैवं कुर्यात् यच्च कुर्यात्तद्दर्शयति स भिक्षुस्तदधिकमाहारजातं परिगृह्य तत्समीपं गच्छेद्, गत्वा च पूर्वमेव 'आलोकयेत्' दर्शयेत्, एवं च ब्रूयाद्-आयुष्मन् ! श्रमण! ममैतदशनादि बहुपर्यापन्नं नाहं भोक्तुमलमतो यूयं किञ्चिद् भुङ्गध्वं, तस्य चैवं वदतः स परो ब्रूयाद्-यावन्मानं भोक्तुं शक्नुमस्तावन्मात्रं भोक्ष्यामहे पास्यामो वा, सर्वं वा 'परिशटति' उपयुज्यते तत्सर्वं भोक्ष्यामहे पास्याम इति । मू. (३८९) से भिक्खू वा २ से जं० असणं वा ४ परं समुद्दिस्स बहिया नीहडं जं परेहिं असमणुन्नायं अनिसिहँ अफा० जाव नो पडिगाहिज्जा जं परेहिं समणुण्णायं सम्मं निसिटुं फासुयं जाव पडिगाहिज्जा, एवं खलु तस्स भिक्खुस्सम भिक्खुणीए वा सामग्गियं। वृ.सपुनर्यदेवंभूतमाहारजातंजानीयात्, तद्यथा-'परं' चारभटादिकमुद्दिश्यगृहानिष्क्रान्तं यच्च परैर्यदि भवान् कस्मैचिद्ददाति ददात्वित्येवं समनुज्ञातं नेतुर्दातुर्वा स्वामित्वेनानिसृष्टं वा तद् बहुदोषदुष्टत्वादप्रासुकमनेषणीयमिति मत्वा न प्रतिगृह्णीयात्, तद्विपरीतं तु प्रतिगृह्णीयादिति, एतत्तस्य भिक्षोः सामग्रयमिति ।। चूडा-१, अध्ययनं-१, उद्देशकः-९ समाप्तः चूडा-१, अध्ययनं-१ उद्देशकः-१० वृ.उक्तोनवमोऽधुनादशमआरभ्यते, अस्यचायमभिसम्बन्धः-इहानन्तरंपिण्डग्रहणविधि प्रतिपादितः, इह तु साधारणादिपिण्डावाप्तौ वसतौ गतेन साधुना यद्विधेयं तद्दर्शयितुमाह मू. (३९०) से एगइओ साहारणं वा पिंडवायं पडिगाहित्ता ते साहम्मिए अणापुच्छित्ता जस्स जस्स इच्छइ तस्स तस्स खद्धं खदं दलई, माइट्ठाणं संफासे, नो एवं करिज्जा । से तमायाय तत्थ गच्छिज्जा २ एवं वइज्जा-आउसंतो समणा! संति मम पुरेसंथुया वा पच्छा तंजहा। आयरिएवा १ उवज्झाएवार पवित्तीवा ३ थेरे वा४ गणी वा ५ गणहरे वा ६ गणावच्छेइए वा७अवियाईएएसिं खद्धं खद्धंदाहामि, सेणेवं वयंतंपरोवइज्जा-कामंखलु आउसो! अहापज्जत्तं निसिराहि, जावइयं २ परो वदइ तावइयं २ निसिरिजा, सव्वमेवंपरो वयइ सव्वमेयं निसिरिजा वृ. 'सः भिक्षु 'एकतरः' कश्चित् 'साधारणं' बहूनांसामान्येन दत्तंवाशब्दः पूर्वोत्तरापेक्षया पक्षान्तरद्योतकः पिण्डपातं परिगृह्य तान् साधर्मिकाननापृच्छय यस्मै यस्मै रोचते तस्मै तस्मै स्वमनीषिकया ‘खद्धं खद्धं'ति प्रभूतं प्रभूतं प्रयच्छति, एवं च मातृस्थानं संस्पृशेत् तस्मान्नैवं कुर्यादिति॥असाधारणपिण्डावाप्तावपि यद्विधेयं तद्दर्शयति ___ “सः' भिक्षु ‘तम्' एषणीयं केवलवेषावाप्तं पिण्डमादाय 'तत्र' आचार्यद्यन्तिके गच्छेत्, गत्वाचैवंवदेद्, यथाआयुष्मन्! श्रमण! 'सन्ति' विद्यन्तेमम 'पुरःसंस्तुताः' यदन्तिके प्रव्रजितस्तत्सम्बन्धिनः ‘पश्चात्संस्तुता वा' यदन्तिकेऽधीतं श्रुतं वा तत्सम्बन्धिनो वाऽन्यत्रावासिताः, तांश्चस्वनामग्राहमाह, तद्यथा-'आचार्य' अनुयोगधरः १ 'उपाध्यायः' अध्यापकः२ प्रवृत्तिर्यथायोगं वैयावृत्त्यादौ साधूनांप्रवर्तकः ३, संयमादौ सीदतांसाधूनां स्थिरीकरणास्थविरः ४, गच्छाधिपो गणी ५, यस्त्वाचार्यदेशीयो गुवदिशात् साधुगणंगृहीत्वा पृथग्विहरति स गणधरः ६, गणावच्छे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy