________________
आचाराङ्ग सूत्रम् २/१/१/९/३८४
पादनादङ्गारदोषः ३, तथाऽन्तप्रान्तादावाहारद्वेषाञ्चारित्रस्याभिधूमनाद्धम्रदोषः ४, वेदनादिकारणमन्तरेण भुञ्जानस्य कारणदोषः ५, इत्येवं वेषमात्रावाप्तं ग्रासैषणादिदोषरहितः सन्नाहारमाहारयेदिति ।
३६०
अथ कदाचिदेवं स्यात्, सः ‘परः' गृहस्थः कालेनानुप्रविष्टस्यापि भिक्षोराधाकर्मिकमशनादि विदध्यात् तञ्च कश्चित्साधुस्तूष्णीभावेनोत्प्रेक्षेत, किमर्थम् ?, आहृतमेव प्रत्याख्यास्यामीति, एवं च मातृस्थानं संस्पृशेत्, न चैवं कुर्यात्, यथा च कुर्यात्तद्दर्शति स पूर्वमेव 'आलोकयेत्' दत्तोपयोगो भवेत्, दृष्ट्वा चाहारं संस्क्रियमाणमेवं वदेदयथा अमुक ! इति वा भगिनि ! इति वा न खलु मम कल्पत आधाकर्मिक आहारो भोक्तुं वा पातुं वाऽतस्तदर्थं यत्नो न विधेयः, अथैवं वदतोऽपि पर आधाकर्मादि कुर्यात्ततो लाभे सति न प्रतिगृह्णीयादिति ।
मू. (३८५) से भिक्खू वा से जं० मंसं वा मच्छं वा भज्जिज्जमाणं पेहाए तिल्लपूयं वा आएसाए उवक्खडिज्रमाणं पेहाए नो खद्धं २ उवसंकभित्तु ओभासिज्जा, नन्नत्थ गिलाणनीसाए ॥
वृ स पुनः साधुर्यदि पुनरेवं जानीयात्, तद्यथा-मांसं वा मत्स्यं वा 'भज्यमान' मिति पच्यमानं तैलप्रधानं वा पूपं तच्चकिमर्थं क्रियते इति दर्शयति-यस्मिन्नायाते कर्मण्यादिश्यते परिजनः स आदेश :- प्राधूर्णकस्तदर्थं संस्क्रियमाणमाहारं प्रेक्ष्यलोलुपतया 'नो' नैव 'खद्धं' र 'ति शीघ्रं २, द्विर्वचनमादरख्यापनार्थमुपसंक्रम्यावभाषेत याचेत, अन्यत्र ग्लानादिकार्यादिति ॥
मू. (३८६) से भिक्खू वा अन्नयरं भोयणजायं पडिगाहित्ता सुबिंभ सुबिंम भुञ्चा दुबिंभ २ परिट्ठवेइ, माइट्ठाणं संफासे, नो एवं करिज्जा। सुब्भि वा दुडिंभ वा सव्वं भुंजिज्जा नो कंचिवि परिट्ठविज्जा ॥
वृ स भिक्षुरन्यतरद् भोजनजातं परिगृह्य सुरभि सुरभि भक्षयेत दुर्गन्धं २ परित्यजेत्, वीप्सायां द्विर्वचनं, मातृस्थानं चैवं संस्पृशेत्, तच्च न कुर्यात्, यथा च कुर्यात् तद्दर्शयति-सुरभिवा दुर्गन्धं वा सर्वं भुञ्जीत न परित्यजेदिति ।
मू. (३८७) से भिक्खू वा २ अन्नयरं पाणगजायं पडिगाहित्ता पुष्पं २ आविइत्ता कसायं २ परिट्ठवेइ, माइट्ठाणं संफासे, नो एवं करिज्जा । पुष्कं पुप्फेइ वा कसायं कसाइ वा सव्वमेवं भुंजिज्जा, नो किंचिवि परि० ॥
घृ. एवं पानकसूत्रमपि, नवरं वर्णगन्धोपेतं पुष्पं तद्विपरीतं कषायं वीप्सायां द्विर्वचनं, दोषश्चानन्तरसूत्रयोराहारगाद्धर्यात सूत्रार्थहानिः, कर्मबन्धश्चेति ।।
मू. (३८८) से भिक्खू वा० बहुपरियावन्नं भोयणजायं पडिगाहित्ता बहवे साहम्मिया तत्थ वसंति संभोइया समणुन्ना अपरिहारिया अदूरगया, तेसिं अनालोइया अणामंते परिट्ठवेइ, माइट्ठाणं संफासे, नो एवं करेज्जा, से तमायाए तत्थ गच्छिज्जा २ से पुव्वामेव आलोइज्जा ।
आउसंतो समणा ! इमे मे असणे वा पाणे वा ४ बहुपरियावन्ने तं भुंजह णं, से सेवं वयंतं परो वइज्जा आउसंतो समणा! आहारमेयं असणं वा ४ जावइयं २ सरइ तावइयं २ भुक्खामो वा पाहामो वा सव्वमेयं परिसडइ सव्वमेयं भुक्खामो वा पाहामो वा ॥
वृ. स भिक्षुर्बह्नशनादि पर्यापन्नं लब्ध परिगृह्य बहुर्भिर्वा प्रकारैराचार्यग्लानप्राघूर्णकाद्यर्थं दुर्लभद्रव्यादिभि पर्यापन्नमाहारजातं परिगृह्य तद्बहुत्वाद्भोक्तुमसमर्थ, तत्र च साधर्मिकाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org