SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३५४ आचाराङ्ग सूत्रम् २/१/१/७/३७४ अपरिणयं अविद्धत्थं अफासुयं जाव नो पडिगाहिज्जा । अह पुण एवं जाणिज्जा चिराधोयं अंबिलं वुक्कतं परिणयं विद्धत्थं फासूयं पडिगाहिज्जा । से भिक्खू वा से जं पुण पाणगजायं जाणिजा, तंजहा - तिलोदगं वा ४ तुसोदगं वा ५ जवोदगं वा ६ आयामं वा ७ सोवीरं वा ८ सुद्धवियडं वा ९ अन्नयरं वा तहप्पगारं वा पाणगजायं पुव्वामेव आलोइज्जा आउसोत्ति वा भइणित्ति वा ! दाहिसि मे इत्तो अन्नयरं पाणगजायं ?, से सेवं वयंतस्स परो वइज्जा आउसंतो समणा ! तुमं चेवेयं पाणगजायं पडिग्गहेण वा उस्सिंचिया णं उयत्तिया णं गिण्हाहि, तहप्पगारं पाणगजायं सयं वा गिण्हिज्जा परो वा से दिज्जा, फासूयं लाभे संते पडिगाहिज्जा ।। वृ. स भिक्षुर्गुहपतिकुलं पानकार्थं प्रविष्टः सन् यत्पुनरेवं जानीयात् तद्यथा- 'उस्सेइमं ' वे 'ति पिष्टोत्स्वेदनार्थमुदकं १ 'संसेइमं वा १ भाजनलग्नबिन्दुशोषो वा २ तन्दुलपाको वा ३, आदेशसत्वयम्-उदकस्वच्छीभावः, तदेवमाद्युदकम् 'अनाम्लं' स्वस्वादादचलितम् अव्युकान्तमपरिणतमविध्वस्तमप्रासुकं यावन्न प्रतिगृह्णीयादिति ॥ एतद्विपरीतं तु ग्राह्यमित्याह- अहेत्यादि सुगमम् । पुनः पानकाधिकार एव विशेषार्थमाहस भिक्षुर्गृहपतिकुलंप्रविष्टो यत्पुनः पानकजातमेवंजानीयात्, तद्यथा- 'तिलोदकं' तिलैः केनचित्प्रकारेण प्राकीकृतमुदकम ४, एवं तुषैर्यवैर्वा ५-६, तथा 'आचाम्लम्' अवश्यानं ७, 'सौवीरम्' आरनालं ८ ‘शुद्धविकटं' प्रासुकमुदकम् ९, अन्यद्वा तथाप्रकारं द्राक्षापानकादि 'पानकजातं' पानीयसामान्यं पूर्वमेव 'अवलोकयेत्' पश्येत्, तच दृष्ट्वा तं गृहस्थम् अमुक ! इति वा भगिनि ! इति वेत्यामन्त्रयैवं ब्रूयाद्यथा दास्यसि मे किञ्चित्पानकजातं ?, स परस्तं भिक्षुमेवं वदन्तमेवं ब्रूयाद्-यथा आयुष्मन् ! श्रमण ! त्वमेवेदं पानकजातं स्वकीयेन पतद्ग्रहेण टोप्परिकया कटाहकेन वोत्सिग्च्यापवृत्त्य वा पानकमाण्डकं गृहाण, स एवमभ्यनुज्ञातः स्वयं गृह्णीयात् परो वा तस्मै दद्यात्, तदेवं लाभे सति प्रतिगृह्णीयादिति । किञ्च मू. (३७६ ) से भिक्खू वा० से जं पुण पाणगं जाणिज्जा - अनंतरहियाए पुढवीए जाव संताण्ए उद्धड २ निक्खित्तेसिया, असंजए भिक्खुपडियाए उदउल्लेण वा ससिणिद्वेण वा सकसाएण वा मत्तेण वा सीओदगेण वा संभोइत्ता आहडदलइज्जा, तहप्पगारंपाणगजायं असासुयंएयंखलुसामग्गिय वृ. स भिक्षुर्यदि पुनरेवं जानीयात् तत्पानकं सचित्तेष्वव्यवहितेषु पृथिवीकायादिषु तथा मर्कटकादिसन्तानके वाऽन्यतो भाजनादुवृ त्योवृत्य 'निक्षिप्तं' व्यवस्थापितं स्यात्, यदिवास एव 'असंयतः' गृहस्थः 'भिक्षुप्रतिज्ञया' भिक्षुमुद्दिश्य 'उदकाद्रेण' गलबिन्दुना 'सस्निग्धेन' गलदुदकबिन्दुना 'सकषायेण' सचित्तपृथिव्याद्यवयवगुण्ठितेन 'मात्रेण' भाजनेन शीतोदकेन वा 'संभोएत्ता' मिश्रयित्वाऽऽहृत्य दद्यात्, तथाप्रकारं पानकजातमप्रासुकमनेषणीयमिति मत्वा न परिगृह्णीयात्, एतत्तस्य भिक्षोर्भिक्षुण्या वा 'सामग्र्यं' समग्रो भिक्षुभाव इति ॥ चूडा-१ अध्ययनं -१ उद्देशकः ७ समाप्तः -: चूडा-१ अध्ययनं -१ उद्देशकः-८ : बृ. उक्तः सप्तमोद्देशकः, साम्प्रतमष्टमः समारभ्यते, अस्य चायमभिसम्बन्ध-इहानन्तरोद्देशके पानकविचारः कृतः, इहापि तद्गतमेव विशेषमधिकृत्याह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy