________________
३५०
आचाराङ्गसूत्रम् २/१/१/६/३६७ कुर्यात्, स भिक्षुर्हस्तादिकं पूर्वमेव प्रक्षाल्यमानमालोचयेद्, दत्तावधानो भवेदित्यर्थ, तच्च प्रक्षाल्यमानमालोच्यामुक इत्येवं स्वनामग्राहं निवारयेद्, यथा-मैवं कृतास्त्वमिति, यदिपुनरसौ गृहस्थो हस्तादिकं सचित्तोदकेन प्रक्षाल्य दद्योत्तदप्रासुकमिति ज्ञात्वानप्रतिगृह्णीयादिति।
किञ्च-अथासौ भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं विजानीयात्, तद्यथा-'नो' नैव साधुभिक्षादानार्थ पुरः-अग्रतः कृतं प्रक्षालनादिकं प्रक्षालितं किन्तु तथाप्रकार एव स्वतः कुतोऽप्यनुष्ठानादुदकाद्रोहस्तस्तेन, एवं मात्रादिनाऽपि गलद्विन्दुनादीयमानंचतुर्विधमप्याहारमप्रासुकमनेषणीयमितिमत्वानोगृह्णीयादिति ॥अथपुनरेवं विजानीयात, तद्यथा-नैव उदकाण' गलबिन्दुना हस्तादिना दद्यात्, किन्तु 'सस्निग्धेन' शीतोदकस्तिमितेनापि हस्तादिना दीयमानं नप्रतिगृह्णीयात, एवं मितिप्राक्तनंन्यायमतिदिशति, यथोदकस्निग्धेनहस्तेननग्राह्यंतथाऽन्येन रजसाऽपि, एवं मृत्तिकाद्यप्यायोज्यमिति।
तत्रोषः-क्षारमृत्तिका हरितालहिङ्गुलकमनःशिलाऽञ्जनलवणगेरुकाः प्रतीताः, सचित्ताश्च खनिविशेषोत्पत्तेः वर्णिका-पीतमृत्तिका, सेटिका-खटिका, सौराष्ट्रिका-तुबरिका, पिष्टम्अच्छटिततन्दुलचूर्णः, कुक्कुसाः-प्रतीताः, 'उक्कुटुं'ति पीलुपर्णिकादेरुदूखलचूर्णितमार्द्रपर्णचूर्णिमित्येवमादिनासस्निग्धेन हस्तादिना दीयमानं न गृह्णीयात्, इत्येवमादिना तुअसंसृष्टेनतु गृह्णीयादिति । अथ पुनरेवं जानीयानोऽसंसृष्टः किं तर्हि ?-संस्ष्टस्तजातीयेनाहारादिना तेन संसृष्टेन हस्तादिना प्रासुकमेषणीयमिति गृह्णीयात्, अत्र चाष्टौ भङ्गाः, तद्यथा- “असंसढे हत्ये असंसट्टे मत्तेनिरवसेसे दब्वे" इत्येकैकपदव्यभिचारान्नैयाः, स्थापनाचेयम्-अथपुनरसौ भिक्षुरेवं जानीयात्, तद्यथा-उदकादिनाऽसंसृटो हस्तादिस्ततो गृह्णीयात्, यदिवा तथाप्रकारेण दातव्यद्रव्यजातीयेन संसृष्टो हस्तादिस्तेन तथा प्रकारेण हस्तादिना दीयमानमाहारदिकं प्रासुकमेषणीयमितिकृत्वा प्रतिगृह्णीयादिति ॥ किञ्च
मू. (३६८) सेभिक्खूवा २ सेजंपुणजाणिजापिहुयंवा बहुरयंवाजावचाउलपलंबंवा असंजए भिक्खु पडियाए चित्तमंताए सिलाए जाव संताणाए कुट्टिसुंवा कुट्टिति वा कुट्टिस्संति वा उप्फणिंसु वा ३ तहप्पगारं पिहुयं वा अप्फासुयं नो पडिगाहिज्जा ॥
वृ.स भिक्षुर्भिक्षार्थं गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं विजानीयात, तद्यथा-'पृथुकं शाल्यादिलाजान् 'बहुरयंति पहुकं'चाउलपलंब'तिअद्धपक्वााल्यादिकणादिकमित्येवमादिकम् 'असंयतः' गृहस्थः 'भिक्षुप्रतिज्ञया' भिक्षुमुद्दिश्य चित्तमत्यां शिल्यां तथा सबीजायां सहरितायां साण्डायां यावन्मर्कटसन्तानोपेतायाम् 'अकुट्टिषुः' कुट्टितवन्तः तथा कुट्टन्ति कुटिष्यन्ति वा।
एकवचनाधिकारेऽपि छान्दसत्वात्तिङव्यत्ययेन बहुवचनं द्रष्टव्यं, पूर्वत्र वा जातावेकवचनं,तच्च पृथुकादिकं सचित्तमचित्तंवाचित्तमत्यां शिलायांकुट्टयित्वा उष्फणिंसुत्ति साध्वर्थं वाताय दत्तवन्तो ददति दास्यन्ति वा, तदेवं तथा प्रकारं पृथुकादि ज्ञात्वा लाभे सति नो प्रतिगृह्णीयादिति । किञ्च
मू. (३६९) सेभिक्खूवा २ जावसमाणे सेजं० बिलं वालोणं उष्मियंवा लोणं अस्संजए जाव संताणाएभिंदिसु३रुचिंसुवा ३ बिलं वालोणं उष्मियं वालोणंअफासुयं नो पडिगाहिज्जा
वृ.स भिक्षुर्यदिपुनरेवं विजानीयात्, तद्यथा-बिलमिति खनिविशेषोत्पन्नलवणम्, अस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org