________________
३०४
तपो भावोपधानमुच्यते इत्याह
नि. [ २८३] जह खलु मइलं वत्थं सुज्झइ उदगाइएहिं दव्वेहिं । एवं भावुवहाणेण सुज्झए कम्ममट्ठविहं ॥
आचाराङ्ग सूत्रम् १/-/९/-/- [नि. २८३ ]
वृ. 'यथे' त्युदाहरणोपन्यासार्थः यथैतत्तथाऽन्यदपि द्रष्टव्यमित्यर्थः, खलुशब्दो वाक्यालङ्कारे, यथा मलिनं वस्त्रमुदकादिभिर्द्रव्यैः शुद्धिमपयाति एवं जीवस्यापि भावोपधानभूतेन सबाह्याभ्यन्तरेण तपसा अष्टप्रकारं कर्म्म शुद्धिमुपयातीति । अस्य च कर्म्मक्षयहेतोस्तपस उपधानश्रुतत्वेनात्रोपात्तस्य 'तत्त्वभेदपर्यायैर्व्याख्ये' तिकृत्वा पर्यायदर्शनायाह-यदिवा तपोऽनुष्ठानेनापादिता अवधूननादयः कर्म्मापगमविशेषाः सम्भवन्तीत्यतस्तान् दर्शयितुमाह
नि. [ २८४] ओधूणण धुणण नासण विणासणं झवण खवण सोहिकरं । छेयण भेयण फेडण डहणं धुवणंच कम्माणं ॥
वृ. तत्रावधूननम् - अपूर्वकरणेन कर्म्मग्रन्थेर्भेदापादानं, तच्च तपोऽन्यतरभेदसामर्थ्याद्मवतीत्येषा क्रिया शेषेष्वप्येकादश सु पदेष्वायोज्या, तथा 'धूननं' भिन्नग्रन्थेरनिवर्त्तिकरणेन सम्यकत्वावस्थानं, तथा 'नाशनं' कर्म्मप्रकृतेः स्तिबुकसङक्रमेण प्रकृत्यन्तरगमनं, तथा 'नाशनं' शैलेश्यवस्थायां सामस्त्येन कर्म्माभावापादनं, तथा ध्यापनम् -उपशमश्रेण्यां कर्म्मानुदयलक्षणं विध्यापनं, तथा ‘क्षपणम्' अप्रत्याख्यानादिप्रक्रमेण क्षपकश्रेण्यां मोहाद्यभावापादनं, तथा 'शुद्धिकर' मित्यन्तानुबन्धिक्षयप्रक्रमेण क्षायिकसम्यकत्वापादानं,
तथा 'छेदनम्' उत्तरोत्तरशुभाध्यवसायारोहणात्स्थितिहा जननं, तथा 'भेदनं' बादरसम्परायावस्थायां सजवलनलोभस्य खण्डशो विधानं, तथा 'फेडण'न्ति अपनयनं चतुःस्थानिकादीनामशुभप्रकृतीनां रसतस्त्र्यादिस्थानापादनं, तथा 'दहनं' केवलिसमुद्घातध्यानाग्निना वेदनीयस्य भस्मसात्करणं, शेषस्य च दग्धरज्जुतुल्यत्वापादनं, तथा 'धावनं ' शुभाध्यवसायान्मिथ्यात्वपुद्गलानां सम्यकत्वभावसंजननमिति, एताश्च कर्म्मणोऽवस्थाः प्रायश उपशमश्रेणिक्षपकश्रेणिकेवलिसमुद्घातशैलेश्यवस्थाप्रकटनेन प्रभूता आविर्भाविता भवन्तीत्यतस्तठप्रकटनाय प्रक्रम्यते,
तत्रोपशमश्रेण्यामादावेवानन्तानुबन्धिनामुपशमना तावत्कथ्यते, इहासंयतसम्यग्धष्टिदेशविरतप्रमत्ताप्रमत्तानामन्यतरोऽन्यतरयोगे वर्त्तमान आरम्भको भवति, तत्रापि दर्शनसप्तकमेकेनोपशमयति, तद्यथा - अनन्तानुब्धिनश्चतुरः, उपरितनलेश्यात्रिके च विशुद्धे साकारोपयोग्यन्तःकोटीकोटीस्थितिसत्कर्म्मा परिवर्त्तमानाः शुभप्रकृतीरेव बध्नन् प्रतिसमयमशुभप्रकृतीनामनुभागमनन्तगुणहान्या हासयन् शुभानां चानन्तगुणवृद्धयाऽनुभागं व्यवस्थापयन् पल्योपमासङ्घयेयभागहीनमुत्तरोत्तरं स्थितिबन्धं कुर्वन् करणकालादपि पूर्वमन्तर्मुहूर्त्त विशुध्यमानः करणत्रयं विधत्ते, तच्च प्रत्येकमान्तर्मौहूर्त्तिकं, तद्यथा
यथाप्रवृत्तकरणमपूर्वकरणमनिवृत्तिकरणं चेति, चतुर्य्युपशान्ताद्धा, तत्र यथाप्रवृत्तकरणे प्रतिसमयमनन्तगुणवृद्धया विशुद्धिमनुभवति, न तत्र स्थितिघातरसघातगुणश्रेणीगुणसङ्क्रमाणामन्यतमोऽपि विद्यते, तथा द्वितीयमपूर्वकरणं, किमुक्तं भवति ? -अपूर्वामपूर्वा क्रियां गच्छतीत्यपूर्वकरणं, तत्र च प्रथमसमय एव स्थितिघातरसघातगुणश्रेणिगुणसङक्रमा अन्यश्च
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International