________________
२८६
आचाराङ्गसूत्रम् १/-10/४/२२७
एतदध्यवसायी स्यादित्याह
मू. (२२८) जस्स णं भिक्खुस्स एवं भवइ-पुट्ठो खलु अहमंसि नालमहमंसि सीयफासं अहियासित्तए, से वसुमंसव्वसमन्नागयपन्नाणेणं अप्पाणेणं केइअकरणयाए आउट्टे तवस्सिणो हु तं सेयं जमेगे विहमाइए तत्थावि तस्स कालपरियाए, सेऽवि तत्थ विअंतिकारए, इच्चेयं विमोहायतणं हियं सुहं खमंनिस्सेसं आणुगामियं-त्तिबेमि ।
वृ. णम्' इति वाक्यालङ्कारे यस्य भिक्षोर्मन्दसंहननतया एवम्भूतोऽध्यवसायो भवति, तद्यथा-स्पृष्टः खल्पहमस्मि रोगातः शीतस्पर्शादिभिर्वा स्त्रयाद्युपसगैर्वा, ततो ममास्मिन्नवसरे शरीरविमोक्षंकर्तुश्रेयो नालं नसमर्थोऽहमस्मि, 'शीतस्पर्श शीतापादितंदुःखविशेषंभावशीतस्पर्श वास्त्र्याधुपसर्गम् अध्यासयितुम् अधिसोढुमित्यतो भक्तपरिज्ञेङ्गितमरणपादपोपगमनमुत्सर्गतः कर्तुंयुक्तं,नचतस्यममास्मिन्नवसरेऽवसरोयतोमेकालक्षेपासहिष्णुरुपसर्गः समुस्थितोरोगवेदनां वा चिराय सोढुं नालमतो वेहानसं गार्द्धपृष्ठं वा आपवादिकं मरणमत्र साम्प्रतं, न पुनरुपसर्गितस्तदेवाभ्युपेयादित्याह
स' साधुःवसु-द्रव्यंसचात्रसंयमःसविद्यतेयस्यासौ वसुमान्, सर्वसमन्वागतप्रज्ञानेना त्मनाकश्चिदर्द्धकटाक्षनिरीक्षणादुपसर्गसम्भवेसत्यपितदकरणतयाआसमन्तावृत्तो व्यवस्थित आवृत्तो, यदिवाशीतस्पर्शवातादिजनितंदुःखविशेषमसहिष्णुस्तचिकिसायाअकरणतयावसुमान् सर्वसमन्वागतप्रज्ञानेनात्मना आवृत्तो व्यवस्थितइति, सचोपसर्गितोवातादिवेदनांचासहिष्णुः किं कुर्यादित्याह-हुर्हेतौ यस्माच्चिराय वातादिवेदनां सोढुमसहिष्णुः, यदिवा यस्मात् सीमन्तनी उपसर्गयितुमुपस्थिता विषभक्षणोद्वन्धनाडुपन्यासेनापि न मुञ्चति ततस्तपस्विनः प्रभूततरकालनानाविधोपायोपार्जिततपोधनस्य तदैव श्रेयो यदैकः कश्चिनिजैः सपत्नीकोऽपवरके प्रवेशितः आरूढप्रणयप्रेयसीप्रार्थितस्तन्निर्गमोपायमलभमान आत्मोद्बन्धनाय विहायोगमनं तदाऽऽदद्याद्विषंवा भक्षयेत् पतनंवा कुर्याद्दीर्घकालं वाशीतस्पर्शादिकमसहिष्णुः सुदर्शनवत् प्राणान् जह्यात् । ननु च वेहानसादिकंबालमरणमुक्तं, तच्चानाय, तत्कथं तस्याभ्युपगमः?,
तथाचागमः- "इच्चेएणंबालमरणेणंमरमाणेजीवेअनंतेहिं नेरइयभवग्गहणेहिंअप्पाणं संजोएइजावअणाइयंचणंअणवयग्गंचाउरंतंसंसारकंतारं भुजो भुञ्जो परियट्टईत्ति,अत्रोच्यते, नैषदोषोऽत्रास्माकमार्हतानां, नैकान्ततः किञ्चिप्रतिषिद्धमभ्युपगतंवा मैथुनमेकं विहाय, अपि तुद्रव्यक्षेत्रकालभावानाश्रित्यतदेव प्रतिषिध्यतेतदेवचाभ्युपगम्यते, उत्सर्गोऽप्यगुणायापवादोऽपि गुणायकालज्ञस्यसाधोरिति, एतद्दर्शयितुमाह-दीर्घकालंसंयमप्रतिपालनं विधायसंलेखनाविधिना कालपर्यायेण भक्तपरिज्ञादिमरणं गुणायेति, एवंविधे त्ववसरे तत्तापिवेहानसगार्द्धप्रष्ठादिमरणे अपि कालपर्याय एव, यद्वत्कालपर्यायमरणं गुणाय एवं वेहानसादिकमपीत्यर्थः, बहुनाऽपि कालपर्यायेणंयावन्मात्रंकमसिौक्षपयतितदसावल्पेनापिकालेन कर्मक्षयमवाप्नोतीति दर्शयति
____ “सोऽपि' वेहानसादेर्विधाता, न केवलमानुपूर्व्या भक्तपरिज्ञादेः कर्तेत्यपिशब्दार्थः, 'तत्र' तस्मिन् वेहानसादिमरणे 'विअंतिकारए'त्ति विशेषेणान्तिय॑न्तिः -अन्तक्रिया तस्याः कारको व्यन्तिकारकः, तस्यहितस्मिन्नवसे सदेहानसादिकमौत्सर्गिकमेवमरणं, यतोऽनेनाप्यापवादिकेन मरणेनानन्ताः सिद्धाः सेत्स्यन्ति च, उपसञ्जिहीर्षुराह-'इत्येतत्' पूर्वोक्तं वेहानसादिमरणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org