SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २५४ आचारागसूत्रम् 9/-/६/३/१९९ ॥१॥ "निम्माणेइ परो च्चिय अप्पाण उण वेयणं सरीराणं । अप्पाणोच्चिअहिअयस्स न उण दुक्खं परो देइ" इत्यादि, शरीररस्य तु पीडा भवत्येवेति दर्शयितुमाह-प्रतनुके च मांसं च शोणितं च मांसशोणिते द्वे अपि, तस्य हि रूक्षाहारत्वादल्पाहारत्वाच्च प्रायशः खलत्वेनैवाहारः परिणमति, न रसत्वेन, कारणाभावाच्च प्रतन्वेव शोणितं तत्तनुत्वान्मांसमपीति ततो मेदादीन्यपि, यदिवा प्रायशो रूक्षं वातलं भवति, वातप्रधानस्य च प्रतनुतैव मांसशोणितयोः, अचेलतया च तृणस्पर्शादिप्रादुर्भावेन शरीरोपतापात् प्रतनुके मांसशोणिते भवत इति सम्बन्धः, 'संसारश्रेणी' संसारावतरणी रागद्वेषकषायसंततिस्तां क्षान्त्यादिना विश्रेणी कृत्वा, तथा परिज्ञाय' ज्ञात्वाच समत्वभावनया, तद्यथा जिनकल्पिकः कश्चिदेककल्पधारी द्वौत्रीन् वा बिभर्ति, स्थविरकल्पिको वामासार्द्धमासक्षपकः तथा विकृष्टाविकृष्टतपश्चारी प्रत्यहं भोजी कूरगडुको वा, एते सर्वेऽपि तीर्थकृद्वचनानुसारतः परस्परनिन्दया समत्वदर्शिन इति, उक्तंच॥१॥ "जोविदुवत्थतिवत्थो एगेण अचेलगोवसंथरइ। नहु ते हीतिपरंसव्वेवि हु ते जिणाणाए" तथा जिनकल्पिकः प्रतिमाप्रतिपनो वा कश्चित्कदाचित् षडपि मासानात्मकल्पेन भिक्षां नलमेत तथाऽप्यसौ कूरगडुकमपियथौदनमुण्डस्त्वमित्येवंनहीलयति।तदेवंसमत्वदृष्टिप्रज्ञया विश्रेणीकृत्य एष; उक्तलक्षणो मुनिः तीर्णः संसारसागरं एष एव मुक्तः सर्वसङ्गेभ्यो विरतः सर्वसावद्यानुष्ठानेभ्यो व्याख्यातो नापर इति । ब्रवीमीतिशब्दौ पूर्ववत् ।। तदेवं संसारश्रेणी विश्लेषयित्वा यः संसारसागरतीर्णवत्तीर्णो मुक्तवन्मुक्तो विरतो व्याख्यातः, तं च तथाभूतं किमरतिरभिभवेदुत नेति, अचिन्त्यसामर्थ्यात् कर्मणोऽभिभवेदित्येतदेवाह मू. (२००) विरयं भिक्खुं रीयंतं चिरराओसियं अरई तत्थ किं विधारए ?, संधेमाणे समुट्ठिए, जहासेदीवेअसंदीणेएवंसेधम्मेआरियपदेसिए,तेअनवकंखमाणापाणेअनइवाएमाणा जइया मेहाविणो पंडिया, एवं तेसिं भगवओ अनुट्ठाणे जहा से दियापोए एवं ते सिस्सा दिया य राओ य अनुपुब्वेण वाइय-त्तिबेमि-॥ वृ.विरतमसंयमाद्भिक्षणशीलंभिक्षु रीयमाणं निस्सरन्तमप्रशस्तेभ्योऽसंयमस्थानेभ्यः प्रशस्तेष्वपि गुणोत्कर्षादुपर्युपरि वर्तमानं चिररात्रं-प्रभूतं कालं संयमे उषितश्चिररात्रोषितस्तमेवंगुणयुक्तम् ‘अरतिः' संयमोद्विग्नता 'तत्र' तस्मिन् संयमे प्रवर्तमानं किं विधारयेत्' किं प्रतिस्खलयेत्?, किंशब्दः प्रश्ने, किंतथाभूतमपि मोक्षप्रस्थितंप्रणाय्य विषयमरतिर्विधारयेत्, ओमित्युच्यते, तथाहि-दुर्बलान्यविनयवन्तिचेन्द्रियाण्यचिन्त्या मोहशक्तिर्विचित्राकर्मपरिणतिः किं न कुर्यादिति, उक्तंच॥१॥ "कर्माणि नूनं घणचिक्कणाई गरुयाई वइरसाराई। नाणट्ठिअंपि पुरिसंपंथाओ उप्पहं निति" यदिवा किं क्षेपे, किं तथाभूतं विधारयेदरतिः?, नैव विधायरयेदित्यर्थः, तथाहि-असौ क्षणे क्षणे विशुद्धतरचरणपरिणामतया विष्कम्भितमोहनीयोदयत्वाल्लघुका भवतीति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy