________________
श्रुतस्कन्धः - १, अध्ययनं - ६, उद्देशक + ३
२५३
आभिमुख्येन सोढं भवति । एतच्च न मयोच्यते इत्येतद्दर्शयितुमाह-'यथा' येन प्रकारेण 'इद' मिति यदुक्तं वक्ष्यमाणं चैतद्भगवता वीरवर्द्धमानस्वामिना प्रकर्षेणादी वा वेदितं प्रवेदितमिति, यदि नाम भगवता प्रवेदितं ततः किमित्याह-तद्-उपकरणलाघवमाहारलाघवं वा 'भिसमेत्य' ज्ञात्वा एवकारोऽवधारणे, तदेव लाघवं ज्ञात्वेत्यर्थः, कथमिति चेत् तदुच्यते- 'सर्वत' इति द्रव्यतः क्षेत्रतः कालतो भावतश्च तत्र द्रव्यतः आहारोपकरणादौ क्षेत्रतः सर्वत्र ग्रामादौ कालतोऽहनि रात्रौ वा दुर्भिक्षादौ वा सर्वात्मनेति भावतः कृत्रिमकल्काद्यभावेन, तथा 'सम्यकत्व' मिति प्रशस्तं शोभनं एकं सङ्गतं वा तत्त्वं सम्यकत्वं, यदुक्तम्
॥१॥
“प्रशस्तः शोभनश्चैव, एकः सङ्गत एव च । इत्येतैरुपसृष्टस्तु, भावः सम्यकत्वमुच्यते "
॥२॥
11911
तदेवम्भूतं सम्यकत्वमेव समत्वमेव वा 'समभिजानीयात्' सम्यगाभिमुख्येन जानीयात्परिच्छिन्द्यात्, तथाहि-अचेलोऽप्येकचेलादिकं नावमन्यते, यत उक्तम्“जोऽवि दुवत्थतिवत्थो एगेण अचेलगो व संथरइ । न हु ते हीलंति परं सव्वेऽवि य ते जिणाणाए " (तथा) - "जे खलु विसरिसकप्पा संघयणधियादिकारणं पप्प । नवमन्नइ ण य हीणं अप्पाणं मन्नई तेहिं
11
सव्वेऽवि जिणाणाए जहाविहिं कम्मखवणअट्ठाए ।
॥३॥
विहरंति उज्जया खलु सम्मं अभिजाणई एवं "
यदिवा तदेव लाघवमभिसमेत्य सर्वतो द्रव्यादिना सर्वात्मना नामादिनसम्यकत्वमेव सम्यगभिजानीयात्, तीर्थकरगणधरोपदेशात् सम्यक्कुर्व्यादिति तात्पर्यार्थः । एतच्च नाशक्यानुष्ठानं ज्वरहरतक्षक चूडालङ्काररत्नोपदेशवद्भवतः केवलमुपन्यस्यते, अपि त्वन्यैर्बहुभिश्चिरकालमासेवितमित्येतद्दर्शयितुमाह-'एवम्' इत्यचेलतया पर्युषितानां तृणादिस्पर्शानधिसहमानानां तेषां महावीराणां सकललोकचमत्कृतिकारिणां 'चिररात्रं' प्रभूतकालं यावज्जीवमित्यर्थः, तदेव विशेषतो दर्शयति
'पूर्वाणि' प्रभूतानि वर्षाणि 'रीयमाणानां संयमानुष्ठानेन गच्छतां, पूर्वस्य तु परिमाणं वर्षाणां सप्ततिः कोटिलक्षाः षट्पञ्चाशच्च कोटिसहाः, तथा प्रभूतानि वर्षाणि रीयमाणानां, तत्र नाभेयादारभ्य शीतलं दशमतीर्थकरं यावत्पूर्वसङ्ख्यासद्भावत् पूर्वाणीत्युक्तं, ततः आरतः श्रेयांसादारभ्यवर्षसङ्ख्याप्रवृत्तेर्वषाणीत्युक्तमिति, तथा 'द्रव्याणां' भव्यानां मुक्तिगमनयोग्यानां ‘पश्य' अवधारय यत्तृणस्पर्शादिकं पूर्वमभिहितं तदधिसोढव्यमिति सम्यक्करणेन स्पर्शातिसहनं कृतमेतदवगच्छेति । एतच्चाधिसहमानानां यत्स्यात्तदाह
मू. (१९९) आगयपन्नाणाणं किसा बाहवो भवंति पयणुए य मंससोणिए विस्सेणिं कट्टु परित्राय, एस तिण्णे मुत्ते विरए वियाहिए- त्तिबेमि - ॥
वृ. आगतं प्रज्ञानंपदार्थाविर्भावकं येषां ते तथा तेषामागतप्रज्ञानानां तपसा परीषहातिसहनेन च कृशा 'बाहवः' भुजा भवन्ति, यदिवा सत्यपि महोपसर्गपरीषहादावागतप्रज्ञानत्वाद् 'बाधाः’ पीडाः कृशा भवन्ति, कर्म्मक्षपणायोत्थितस्य शरीरमात्रपीडाकारिणः परीषहोपसर्गान् सहायानिति मन्यमानस्य न मनःपीडोत्पद्यत इति, तदुक्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org