________________
श्रुतस्कन्धः - १, अध्ययनं-१, उद्देशक:
तथा तिर्यञ्चो द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाश्चेति चतुर्द्धा, कायाः पृथिव्यप्तेजोवायवश्चत्वारः, तथाऽग्रमूलस्कन्धपर्वबीजाश्चत्वार एव, एतेषोडशदेवनारकप्रक्षेपादष्टादश, एभिभविर्भवनाजीवोव्यपदिश्यत इति भावदिगष्टादशभेदेति।।अत्रचसामान्यदिग्ग्रहणेऽपियस्यां दिशि जीवानामविगानेन गत्यागती स्पष्टे सर्वत्र सम्भवतस्तयैवेहाधिकार इति तामेव नियुक्तिकृत्साक्षाद्दर्शयति, भावादिक्चाविनाभाविनी सामर्थ्यादधिकृतैव, यतस्तदर्थमन्या दिशश्चिन्त्यन्त इत्यत आह - नि. [६१] पन्नवगदिसट्ठारस भावदिसाओऽवितत्तिया चेव ।
इक्विकं विंधेजा हवंति अट्ठारसऽद्वारा॥ नि. [६२] पण्णवगदिसाए पुणअहिगारो एत्थ होइ नायव्यो।
जीवाण पुग्गलाण य एयासु गयागई अस्थि ।। वृ. प्रज्ञापकापेक्षयाअष्टादशभेदा दिशः, अत्रच भावदिशोऽपि तावप्रमाणाएव प्रत्येक सम्भवन्तीत्यतः एकैकां प्रज्ञापकदिशंभावदिगष्टादशकेन विन्धयेत्' ताडयेद्, अतोऽष्टादशाष्टादशकाः, तेचसंख्यात्रीणिशतानिचतुर्विशत्यधिकानिभवन्तीति, एतच्चोपलक्षणंतापदिगादावपि यथासम्भवमायोजनीयमिति । क्षेत्रदिशि तु चतसृष्वेव महादिक्षु सम्भवो न विदिगादिषु, तासामेकप्रदेशिकत्वाच्चतुष्प्रदेशिकत्वाच्चेतिगाथाद्वयार्थः ।।अयंचदिक्संयोगकलापः 'अण्णयरीओ दिसाओ आगओ अहमंसी'त्यनेन परिगृहीतः, सूत्रावयवार्थश्चायम्-इह दिग् ग्रहणात् प्रज्ञापकदिशश्चतम्र, पूर्वादिकाऊवधिोदिशौचपरिगृह्यन्ते, भावदिशस्त्वष्टादशापि, अनुदिग् ग्रहणात्तुप्रज्ञापकविदिशो द्वादशेति,तत्रासंज्ञिनांनैषोऽवबोधोऽस्ति, संज्ञिनामपि केषाञ्चिद्भवति कंषाञ्चिन्नेति, यथाऽहममुष्या दिशः समागत इहेति । ‘एवेमेगेसिं णो णायं भवइत्ति' “एव' मित्यनेन प्रकारेण, प्रतिविशिष्टष्टदिग्विदिगागमनं नैकेषां विदितं भवतीत्येतदुपसंहारवाक्यम्, एतदेव नियुक्तिकृदाहनि. [६३] केसिंचि नाणसण्णा अस्थि केसिंचि नत्थि जीवाणं।
कोऽहं परंमि लोए आसी कयरा दिसाओ वा?॥ केषाञ्चिज्जीवानां ज्ञानावरणीयक्षयोपशमवतांज्ञानसंज्ञाऽस्ति, केषाञ्चित्तु तदावृत्तिमितां नभवतीति।याग्भूता संज्ञान भवतितांदर्शयति-कोऽहंपरस्मिन् ‘लोके जन्मनिमनुष्यादिरासम्, अनेन भावदिग् गृहीता, कतरस्या वा दिशः समायात इत्यनेन तु प्रज्ञापकदिगुपात्तेति, यथा कश्चिन्मदिरामदघूर्णितलोललोचनोऽव्यक्तमनोविज्ञानोरथ्यामार्गनिपतितस्यच्छाकृष्टश्वगणापलिह्यमानवदनोगृहमानीतोमदात्ययेनजानाति कुतोऽहमागत इति, तथाप्रकृतोमनुष्यादिरपीति गाथार्थः । न केवलमेषैव संज्ञा नास्ति अपराऽपि नास्तीति सूत्रकृ दाह -
मू. (३) अस्थि मे आया उववाइए, नत्थि मे आया उववाइए, के अहंआसी? के वाइओ चुए इह पेच्चा भविस्सामि?
वृ. 'अस्ति' विद्यते 'ममे'त्यनेन षष्ठन्तेन शरीरं निर्दिशति, ममास्य शरीरकस्याधिष्ठाता, अतति-गच्छति सततगतिप्रवृत्त आत्मा-जीवोऽस्तीति, किंभूतः ? - औपपातिकः' उपपातःप्रादुर्भावोजन्माजन्मतरसंक्रान्तिः, उपपातेभवऔपपातिक इति, अनेन संसारिणः स्वरूपंदर्शयति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org