________________
२३१
श्रुतस्कन्धः - १, अध्ययनं - ५, उद्देशक:५ स्यात्ततस्तत्कृतावनुग्रहोपघातौ श्रवणेन्द्रियस्यनस्याताम्, अमूर्त्तत्वादाकाशवदित्यादिकं सम्यग् भवति ३।कस्यचित्त्वागमापरिमिलितमतेः कथमेकेनैवसमयेन परमाणोर्लोकान्तगमनमित्यादिकमसम्यगिति मन्यमानस्यैकदेति-कुहेतुवितर्काविर्भावावसरे नितरामसम्यगेव भवति,
तथाहि-चतुर्दशरज्ज्वात्मकस्य लोकस्याद्यन्ताकाशप्रदेशयोः समयाभेदतया यौगपद्यसंस्पर्शात् तावन्मात्रता परमाणोः स्यात्, प्रदेशयर्लोकान्तद्वयगतयोर्वेक्यमित्यादिकमसम्पगिति भवति, न त्वसौ स्वाग्रहाविष्ट एतद्भावयति, यथा-विस्रसापरिणामने शीघ्रगतित्वात् परमाणोरेकसमयेनासङ्घयेय-प्रदेशातिक्रमणं, यथाहि अङ्गुलिद्रव्यमेकसमयेनासङ्ख्येयान-याकाशप्रदेशानतिलङ्घयति, एतदेव कुत इति चेत्, न हि दृष्टेऽनुपपन्नं नाम, न च सकलप्रमाणप्रष्ठप्रत्यक्षसिद्धेऽर्थेनुमानमन्वेष्टव्यं, तथाहि-यद्यनेकप्रदेशातिक्रमणंसामयिकंन भवेत्ततोऽङ्गुलमात्रमपि क्षेत्रमसङ्खयेयसमयातिक्रमणीयं स्यात्, तथा च सति दृष्टेष्टबाधाऽऽपद्येतेति यत्किञ्चिदेतत् ४ । साम्प्रतंभङ्गकोपसंहारद्वारेण परमार्थमाविर्भावयन्नाह-सम्यगित्येवं मन्यमानस्यशङ्काविचिकित्सादिरहितस्य सतस्तद्वस्तुयलेन तथारूपतयैव भावितंतत्सम्यग्वा स्यादसम्यग्वा, तथापितस्य तत्र सम्यगुत्प्रेक्षया-पर्यालोचनया सम्यगेव भवति, ईर्यापथोपयुक्तस्य क्वचिप्राण्युपमर्दवत् ५।
-साम्प्रतमेतद्विपर्ययमाह-असम्यगिति किञ्चिद्वस्तुमन्यमानस्य शङ्का स्यादग्दिर्शितया छद्मस्थस्यसतस्तद्वस्तु सम्यग्वास्यादसम्यग्वा, तस्य तदसम्यगेवोप्रेक्षया, असम्यग्पर्यालोचनतयाऽशुद्धाध्यवसायतयेतियावत्, 'यद्यथा शङ्कयेत्तत्तथैव समापद्येते'ति वचनादिति ६ ॥ यदिवा - “समियंति मन्नमाणस्स' इत्याद्यन्यथा व्याख्यायते-शमिनो भावः शमिताः 'इतिः' उपप्रदर्शने तामेतांशमितांमन्यमानस्य शुभाध्यवसायिनः ‘एकदे'त्युत्तरकालमपिशमितैव भवति-उपशमवत्तैवोपजायते, अन्यस्य तु शमितामपि मन्यमानस्य कषायोदयादशमितोपजायत इति, अनया दिशोत्तरभङ्गेष्वपि सम्यगुपयुज्यायोज्यमिति । तदेवं सम्यगसम्यगित्येवं पर्यालोचयन्नपरस्याप्युपदेशदानायालमिति, आह च-आगमपरिकर्मितमतित्वाद्यथावस्थित-पदार्थस्वभावदर्शितया सम्यगसम्यगिति चोप्रेक्षमाणः-पर्यालोचयनपरमनुप्रेक्षमाणं गड्डरिकायूथप्रवाहप्रवृत्तं गतानुगतिकन्यायानुसारिणंशङ्कयावाऽपधावन्तंब्रूयाद्, यथा-'उप्रेक्षस्व पर्यालोचय सम्यग्भावेन माध्यस्थमवलम्ब्य किमेतदर्हदुक्तंजीवादितत्त्वंघटामियतत्याहोश्चिन्नेत्यक्षिणी निमील्यचिन्तयेति भावः।
-यदिवा उत्प्रेक्षमाणः संयममुत्-प्राबल्येनेक्षमाणः- संयमे उद्यच्छन्ननुप्रेक्षमाणं ब्रूयात्, यथा-सम्यग्भावापन्नः सन् संयममुप्रेक्षस्व-संयमे उद्योगंकुरु । किमवलम्ब्येत्हा-'इत्येवं पूर्वोक्तेन प्रकारेण 'तत्र' तस्मिन् संयमे ‘सन्धिः' कर्मसन्ततिरूप ‘झोषितः' क्षपितो भवति, यदि संयमे सम्यग्भावे वोटप्रेक्षणं स्यात्, नान्यथेति । सम्यगुप्रेक्षमाणस्य च यत्स्यात्तदाह- से' तस्य सम्यगुत्थानेनोत्थितस्य निःशङ्कस्य श्रद्धावतः स्थितस्य गुरुकुले गुरोराज्ञायां वा या गतिर्भवति-या पदवी भवति तां सम्यगनुपश्यत यूयं, तद्यथा-सकललोकश्लाध्यता ज्ञानदर्शनस्थैर्य चारित्रे निष्प्रकम्पता श्रुतज्ञानाधारता च स्यादिति, यदिवा स्वर्गापवर्गादिका गतिः स्यात, तां पश्यतेति सम्बन्धः, अथवा उत्थितस्य-संयमोद्योगवतः तदभावेन च स्थितस्य पार्श्वस्थादेर्गतिं-सकलजनोपहास्य- रूपामधमस्थागतिं वा पश्यतेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org