________________
२२५
श्रुतस्कन्धः-१, अध्ययनं-५, उद्देशक:४
मू. (१७२) सेपभूयदंसीपभूयपरिन्नाणेउवसंतेसमिए सहिएसयाजए, दटुंविप्पडिजिवेएइ अप्पाणं किमेस जणो करिस्सइ ?, एस से परमारामो जाओ लोगंमि इत्थीओ, मुनिना हु एवं पवेइयं, उब्बाहिज्जमाणे गामधम्मेहिं अवि निब्बलासए अविओमोयरियं कुजा अवि उड्डे ठाणं ठाइजा अवि गामाणुगामं दूइजिजा अवि आहारं वुच्छिदिज्जा अविचए इत्थीसुमणं,
पुव्वं दंडापच्छा फासा पुव्वं फासा पच्छा दंडा, इच्चेए कलहासंगकरा भवंति,पडिलेहाए आगमित्ता आणविजा अणासेवणाए त्तिबेमि, से नो काहिए नो पासणिए नो संपसारणिए नो मामएनो कयकिरिए वइगुत्ते अज्झप्पसंवुडे परिवज्जइ सयापावंएयंमोनंसमनुवासिज्जासित्तिबेमि
वृ. 'स' साधुः प्रभूतं प्रमादविपाकादिकमतीतानागतवर्तमानं वा कर्मविपाकं द्रष्टुं शीलमस्येतिप्रभूतदर्शी, साम्प्रतेक्षितयान यत्किञ्चनकारीत्यर्थः,तथाप्रभूतंसत्त्वरक्षणोपायपरिज्ञान संसारमोक्षकारणपरिज्ञानं वा यस्य स प्रभूतपरिज्ञानः, यथावस्थितसंसारस्वरूपदर्शीत्यर्थः, किं च-उपशान्तः कषायानुदयादिन्द्रियनोइन्द्रियोपशमाद्वा, तथा पञ्चभिः समितिभिः समितःसम्यग्वा मोक्षमार्गमितःसमितः, तथा ज्ञानादिभिः सहितः-समन्वितःसह हितेन वासहितः, सदा सर्वकालं यतः सदायतः, स एवम्भूतोऽप्रमत्तो गुरोरन्तिकमावसन् प्रमादजनितस्य कर्मणोऽन्तं विधत्ते। स च स्त्र्याद्यनुकूलपरीषहोपपत्तौ किं विदध्यादित्याह-दृष्ट्वा' अवलोक्य स्त्रीजनमुपसर्गकरणायोद्यतमात्मानं 'विप्रतिवेदयति' पर्यालोचयति, तद्यथा
सम्यग्दृष्टिरस्मि, तथोत्क्षिप्तमहाव्रतभारःशरच्छशाङ्कनिर्मलकुललबब्धजन्माअकार्याकरणतयोत्थित इत्येवमात्मानं पर्यालोचयति, तं च स्त्रीजनं किमेष स्त्रीजनो मम त्यक्तजीविताशस्योज्झितैहिकसुखाभिलाषस्योपसर्गादिकं कुर्यात्?,अथवा वैषयिकसुखस्यदुःखप्रतीकाररूपत्वात् किमेष स्त्रीजनः सुखं विदध्याद्? अन्योवापुत्रकलत्रादिकोजनो मम मृत्युना जिघृक्षितस्व व्याधिना वाऽऽदित्सितस्य किंतप्रतीकारादिकं कुर्यादिति? यदिवैवंस्त्रीजनस्वभावंचिन्तयेदिति सूत्रेणैव दर्शयति-सएष स्त्रीजनआरमयतीत्यारामः परमश्चासावारामश्चपरमारामः ज्ञाततत्त्वमपि जनं हासविलासोपाङ्गनिरीक्षणादिभिर्विब्बोकैर्मोहयतीत्यर्थः, याः काश्चनास्मिन् लोके स्त्रियः ता मोहरूपा विज्ञाय यावन्न परित्यजन्ति तावत्स्वत एव परित्यजेत् । एतच तीर्थकरेण प्रवेदितमिति दर्शयितुमाह
'मुनिना' श्रीवर्द्धमानस्वामिनोत्पन्नज्ञानेनैव एतत् पूर्वोक्तं, यथास्त्रियोभावबन्धनरूपाः, 'प्रवेदितं प्रकर्षणादौवा व्याख्यातमिति । एतच्च वक्ष्यमाणंप्रवेदितमित्याह-उत्-प्राबल्येनमोहोदयाद् बाध्यमानः-पीड्यमानः उद्बाध्यमानः कैः?-ग्रामधर्मैःग्रामाः-इन्द्रियग्रामास्तेषांधाः-स्वभावा यथास्वं विषयेषुप्रवर्तनंतैरुद्बाध्यमानो गच्छान्तर्गतःसन् गुर्वादिनाऽनुशास्यते, कथमनुशास्यत इत्यत आह-अपिः सम्भावनायां, निर्बलं-निःसारमन्तप्रान्तादिकंयद्रव्यं तदाशकः-तद्मोजी स्यात, यदिवा निर्गतंबलं-सामर्थ्यस्येति निर्बलः एवम्भूतः सन्नाशीत, बलाभावेच ग्रामधर्मोपशमदर्शनाद्, बलाभावश्चाहारहान्या स्यादिति दर्शयति___अप्यवमौदर्यं कुर्याद्, यदि ह्यन्तप्रान्ताशिनोऽपि न मोहोपशमः स्यात् ततस्तदपि वल्लचनकादिना द्वात्रिंशत्कवलमात्रं गृह्णीयात्, तेनाप्यनुपशमे कायोत्सर्गादिना कायक्लेशं कुर्यादित्येतद्दर्शयति-अप्यूक्स्थानं तिष्ठेत्, शीतोष्णादौकायोत्सर्गेणातापनांकुर्यात्, तेनाप्यनुपशमे 115
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org