________________
श्रुतस्कन्धः - १, अध्ययनं - ५, उद्देशक : ४
२२३
मिथ्याष्टिना वा वाचा तिरस्कृ तो जात्यादिमदस्थानान्यतरसद्भावेनोन्नतमानमन्दरारूढः कुप्यति, मामप्येवमयं तिरस्करोति, धिग्मे जातिं पौरुषं विज्ञानं चेत्येवमभिमानग्रहगृहीतो वाङ्मात्रादपि गच्छान्निर्गच्छति, तन्निर्गतो वाऽधिकरणादिविडम्बनयाऽऽत्मानं विडम्बयति, अथवोन्नम्यमानेः केनचित् दुर्विदग्धेनाहोऽयं महाकुलप्रसूत आकृतिनामन् पटुप्रज्ञो मृष्टवाक् समस्तशास्त्रवेत्ता सुभगः सुखसेव्यो वेत्यादिना वचसा तथ्येनातथ्येन वोव्प्रास्यमान उन्नतमानो गर्वाध्मातो महता चारित्रमोहेन मुह्यति संसारमोहेन वोह्यत इति ।
तस्य चोन्नतमानतया महामोहेन मुह्यतो मोहाञ्च वाङ्मात्रेणापि कुप्यतः कोपाच्च गच्छनिर्गतस्यानभिव्यक्तस्य भिक्षोर्ग्रामानुग्राममेकाकिनः पर्यटतो यत्स्यात्तदाह-तस्याव्यक्तस्यैकचरस्य पर्यटतः सम्बाधयन्तीति सम्बाधाः पीडाः उपसर्गजनिता नानाप्रकारातङ्कजनिता वा भूयो भूयो बह्वयः स्युः, ताश्चैकाकिनाऽव्यक्तेन निरवद्यविधिना 'दुरतिक्रमा' दुरतिलङ्घनीयाः, किम्भूतस्य दुरतिक्रमा इत्याहतासां नानाप्रकारनिमित्तोत्थापितानां बाधानामतिसहनोपायमजानानस्य सम्यक्करणसहनफलं चापश्यतो दुरतिक्रमणीयाः पीडा भवन्ति, ततश्चातङ्कपीडाकूलीभूतः सन्नेषणामपि लङ्घयेत्, प्राण्युपमर्दमप्यनुमन्येत्, वाक्कण्टकनुदितः सन्नव्यक्ततया प्रज्वलेत, नैतद्भावयेद् यथा मत्कर्म्मविपाकापादिता एताः पीडाः परोऽत्र केवलं निमित्तभूतः, किं च119 11 “आत्मद्रोहममर्यादं, मूढमुज्झितसत्पथम् ।
सुतरामनुकम्पेत, नरकार्च्चिष्मदिन्धनम् "
इत्यादिका भावना आगमापरिमलितमतेर्न भवेदिति । एतत्प्रदर्श्य भगवान् विनेयमाह'एतद्' एकचर्याप्रतिपन्नस्य बाधादुरतिक्रमणीयत्वमजानानस्यापश्यतश्च 'ते' तव मदुपदेशवर्त्तिनो मा भवतु, आगमानुसारितया सदा गच्छान्तर्वर्त्ती भवेत्यर्थः । सुधर्मस्वाम्याह- 'एतत्' पूर्वोक्तं तत् 'कुशलस्य' श्रीवर्द्धमानस्वामिनो 'दर्शनम्' अभिप्रायो यथाऽव्यक्तस्यैकचरस्य दोषाः सततमाचार्यसमीपवर्त्तिनश्च गुणा इति । आचार्यसमीपवर्त्तिनाच किं विधेयमित्याह तस्य - आचार्यस्य दृष्टिस्तदृष्टिस्तया सततं वर्त्तितव्यंहेयोपादेयार्थेषु, यदिवा तस्मिन् संयमे दृष्टिस्तदृष्टिः, स एव वाऽऽगमो दृष्टिस्तदृष्टिस्तया सर्वकार्येषु व्यवहर्त्तव्यम्, तथा तेनोक्ता सर्वसङ्गेभ्यो विरतिर्मुक्तिस्तया सदा यतितव्यम्, तथा पुरस्करणं पुरस्कारः- सर्वकार्येष्वग्रतः स्थापनं, तस्य - आचार्यस्य पुरस्कारस्तत्पुरस्कारस्तस्मिन्-तद्विषये यतितव्यम्, तथा तस्य संज्ञा तत्संज्ञा-तज्ज्ञानं तद्वांस्तत्संज्ञी सर्वकार्येषु स्यात्, न स्वमतिविरचनया कार्यं विदध्यात्,
तथा तस्य- गुरोर्निवेशनं स्थानं यस्यासौ तन्निवेशनः सदागुरुकुलवासी स्यादिति भावः । तत्र गुरुकुले निवसन् किम्भूतः स्यादित्याह यतमानो-यतनया विहरणशीलो विहारी स्यात्, यतमानः प्राण्युपमर्दनमकुर्वन् प्रत्युपेक्षणादिकाः क्रियाः कुर्यादिति, किं च - चित्तम् - आचार्याभिप्रायस्तेन निपतितुं-क्रियायां प्रवर्त्तितुं शीलमस्येति चित्तनिपाती सदा स्यादिति, तथा गुरोः क्वचिद्गतस्य पन्थानं निद्धर्यातुं प्रलोकितुं शीलमस्येति पथनिद्धर्यायी उपलक्षणं चैतत् तेन सुषुप्सोः संस्तारकप्रलोकी बुभुक्षोराहारन्वेषीत्यादिना गुरोराराधकः सदा स्यात्, किं च परिःसमन्तात्गुरोरवग्रहात् पुरतः पृष्ठतो वाऽवस्थानात्सदा कार्यमृते बाह्यः स्याद्, एतस्माच्च सूत्रात्रयः ईर्योद्देशका निर्गता इति । किं च क्वचित्कार्यादौ गुर्वादिना प्रेषितः सन् दृष्ट्वाप्राणिनो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org