________________
२२२
आचाराङ्ग सूत्रम् १/-/५/४/१६९
सदुपदेशमपर्यालोच्य सद्धर्ममविचार्य कषायविपाककटुकतामनवधार्य परमार्थपृष्ठतः कृत्वा कुलपुत्रतां वाङ्मात्रादपि केचित्कोपनिघ्नाः सुखैषिणो ऽगणितापदो गच्छान्निर्गच्छन्ति, तत्र चैहिकामुष्मिकापायानवाप्नुवन्तीति, उक्तं च
"जह सायरंमि मीणा संखोहं सायरस्स असहंता । निंति तओ सुहकामी निग्गयमित्ता विणस्संति एवं गच्छ समुद्दे सारणवीईहिं चोईया संता । निंति तओ सुहकामी मीना व जहा विणस्संति गच्छंमि केइ पुरिसा सउणी जह पंजरंतरनिरुद्धा । सारणवारणचोइय पासत्थगया परिहरति
जहा दियापोयमपक्खजायं, सवासया पविउमणं मणागं । तमचाइया तरुणमपत्तजायं, ढंकादि अव्वत्तगमं हरेज्जा' एवमजातसूत्रवयःपक्षस्तीर्थिकध्वाङक्षादिभिर्विलुप्यते गच्छालयान्निर्गतो वाङ्मात्रेणापि चोदितः सन् इति । एतद्दर्शयितुमाह
मू. (१७०) वयसावि एगे बुइया कुप्पंति माणवा, उन्नयमाणे य नरे महया मोहेण मुज्झइ, संबाहा बहवे भुजो २ दुरइक्कम्मा अजाणओ अपासओ, एयं ते मा होउ, एयं कुसलस्स दंसणं, तद्दिट्ठीए तम्मुत्तीए तप्पुरक्कारे तस्सन्नी तन्निवेसणे, जयं विहारी चित्तनिवाई पंथनिज्झाई पलिबाहिरे, पासिय पाणे गच्छिज्जा
॥१॥
॥२॥
॥३॥
118 11
"
वृ. क्वचित्तपःसंयमानुष्ठानादाववसीदन्तः प्रमादस्खलिता वा गुर्वादिना धर्मेण वचसाऽपि 'एके' अपुष्टधर्माणः अनवगतपरमार्थाः 'उक्ताः' चोदिताः कुप्यन्ति, के ते ? - 'मानवा' मनुजाः क्रोधवशगा भवन्ति, ब्रुवते च कथमहमनेनेयतां साधूनां मध्ये तिरस्कृतः, किं मया कृतम् ?, अथवाऽन्येऽप्येतत्कारिणः सन्त्येव, ममाप्येवम्भूतोऽधिकारोऽभूत्, धिग्मे जीवितमित्यादि, महामोहोदयेन क्रोधतमिस्राच्छादितदृष्टयः उज्झितमसुचिताचारा उभयान्यतराव्यक्ता मीना इव गच्छसमुद्रार्निगत्य विनाशमाप्नुवन्ति, यदिवा वचसाऽपि यथा क इमे लुञ्चिताः मलोपहतगात्रयष्टयः प्रगेतनावसर एवास्माभिर्द्रष्टव्या इत्यादिनोक्ता एके क्रोधान्धाः कुप्यन्ति मानवाः, अपिशब्दात् त्कायेनापि स्पृष्टाः कुप्यन्ति, कुपिताश्चाधिकरणादि कुर्वन्तीत्येवमादयो दोषा अव्यक्तैकचर्यायां गुर्वादिनियामकाभावात्प्रादुष्ट्युरिति, गुरुसान्निध्यै चैवम्भूत उपदेशः सम्भवेत्, तद्यथा"आक्रुष्टेन मतिमता तत्त्वार्थान्वेषणे मतिः कार्या ।
119 11
""
यदि सत्यं कः कोपः ? स्यादनृतं किं नु कोपेन ? (तथा) - "अपकारिणि कोपश्चेत्कोपे कोपः कथं न ते ? । धर्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि "
॥२॥
इत्यादि, किं पुनः कारणं वचसाऽप्यभिहिता ऐहिकामुष्मिकापकारकारिणः स्वपरबाधकस्य क्रोधस्यावकाशं ददतीत्याह-उन्नतो मानोऽस्येत्युन्नतमानः, उन्नतं वाऽऽत्मानं मन्यत इति, स चैवम्भूतो 'नरो' मनुष्यो महता मोहेन- प्रबलमोहनीयोदयेन अज्ञानोदयेन वा 'मुह्यति' कार्याकार्यविचार - विवेकविकलो भवति, स च मोहमोहितः केनचिच्छिक्षणार्थमभिहितो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org