SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं-५, उपोद्घातः २०५ प्रागुपन्यस्तं ध्ढेन-अनन्यमनस्केनतीर्थिकदम्भप्रतारणाक्षोभ्येन ग्राह्यं, तदेवशङ्कापदव्युदासकार्य गाथाशकलेन दर्शयति-अस्ति जीवः अस्य च पदार्थानामादावुपन्यासाजीवपदार्थस्य च प्राधान्यादुपलक्षणार्थत्वाद्वा शेषपदार्थग्रहणं, अस्ति-विद्यते जीवितवान् जीवति जीविष्यतीति वा जीवः शुभाशुभफलभोक्तेति, स च प्रत्यकक्ष एवाहप्रत्यसाध्यः, इच्छाद्वेषप्रयलादिकार्यानुमानसाध्योवा, तथा अजीवाअपिधधिकिाशपुद्गला गतिस्थितित्यवगाहद्वयणुकादिस्कन्धहेतवः सन्ति, एवमानवसंवरबन्धनिर्जरा अपि विद्यन्ते, प्रधानपुरुषार्थत्वाद् आद्यन्तग्रहणे मध्यग्रहणस्यावश्यंभावित्वादाचं जीवपदार्थं साक्षादुपन्यस्यान्त्यं मोक्षपदार्थमुपन्यस्यति-परमं च तत्पदं च परमपदं, तच्चास्तीति सम्बन्ध इति, अस्ति मोक्षः शुद्धपदवाच्यत्वाद् बन्धस्य सप्रतिपक्षत्वान्मोक्षाविनामावित्वाद्वा बन्धस्येति, सत्यपि मोक्षे यदि तदवाप्तावुपायो न स्यात्ततो जनाः किं कुर्युरित्यतस्तत्कारणास्तित्वं दर्शयति-'यतना'यलो रागद्वेषु, रागद्वेषोपशमाघः संयमोऽसावप्यस्तीति । तदेवं सति जीवे परमपदे च शङ्कापदव्युदासेन ज्ञानादिकं सारपदं ध्ढेन ग्राहमिति गाथार्थः। ततोऽप्यपरापरसारप्रकर्षगतिरस्तीति दर्शयन्नुपक्षेपमाहनि. [२४४] लोगस्स उ को सारो? तस्स य सारस्स को हवइ सारो? । तस्स यसारो सारंजइजाणसि पुच्छिओसाह ।। वृ. 'लोकस्य चतुर्दशरज्वात्मकस्य कः सारः ?, तस्यापि सारस्य कोऽपरः सारः ?, तस्यापिसारसारस्य सारंयदिजानासिततः पुष्टोमया कथयेतिगाथार्थः ॥प्रश्नप्रतिवचनार्थमाहनि. [२४५] लोगस्स सार धम्मो धम्मपि य नाणसारियं बिति । नाणं संजमसारं संजमसारंच निव्वाणं॥ वृ.समस्तस्यापिलोकस्यतावद्धर्मःसारो,धर्ममपिज्ञानसारंब्रुवते, ज्ञानमपिसंयमसारं, संयमस्यापि सारभूतं निव्वाणमिति गाथार्थः ।। उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम् -:अध्ययनं-५ उद्देशकः१:मू. (१५४) आवंती केयावंती लोयंसि विप्परामुसंति अट्ठाए अणट्ठाए, एएसुचेव विप्परामुसंति, गुरु से कामा, तओ से मारते, जओ से मारते तओ से दूरे, नेव से अंतो नेव दूरे वृ. 'आवन्तीत्तियावन्तो जीवामनुष्याअसंयतावास्युः, केआवंति'त्ति केचन लोके चतुर्दशरज्ज्वात्मकेगृहस्थान्यतीर्थिकलोकेवाषड्जीवनिकायान्आरम्भप्रवृत्ताविविधम् अनेकप्रकारं विषयाभिलाषितया परामृशन्ति' उपतापयन्ति, दण्डकशताडनादिभिर्घातयन्तीत्यर्थः, किमर्थं विपरामृशन्तीति दर्शयति-'अर्थाय' अर्थार्थं अर्थाद्वा अर्थः-प्रयोजनं धर्मार्थकामरूपं, कर्मणि ल्यब्लोपेपञ्चमी, अर्थमुद्दिश्य-प्रयोजनमुप्रेक्ष्य प्राणिनोघातयन्ति, तथाहि-धर्मनिमित्तं शौचा) पृथिवीकायं समारभन्ते, अर्थार्थं कृष्यादि । करोति, कामार्थमाभरणादि, एवं शेषेष्वपि कायेषु यथायोगं वाच्यं, अनर्थाद्वा-प्रयोजनमनुद्दिश्यैव तच्छीलतयैव मृगयाद्याः प्राण्युपघातकारिणीः क्रियाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy