SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ २०४ आचाराङ्ग सूत्रम् 9/14/-1-[नि.२४०] वृ.अत्रपूर्वार्द्धपश्चाद्धयोर्यथासङ्ख्यंलगनीयं, सर्वस्वेधनंसारभूतं, तद्यथा-कोटिसारोऽयं पञ्चकपर्दकसारोवा, स्थूले एरण्डः सारः,सारशब्दोऽत्रप्रकर्षवाची, स्थूलानांमध्ये एरण्डोभिण्डो वाप्रकर्षभूतः, गुरुत्वेवजं, मध्येखदिरः, देशेआम्रवृक्षो वेणुर्वा, प्रधानेयोयत्रप्रधानभावमनुभवति सचितोऽचित्तो मिश्रश्चेति, सचित्तो द्विपदश्चतुष्पदोऽपदश्चेति, द्विपदेषु जिनः चतुष्पदेषु सिंहः अपदेषु कल्पवृक्षः, अचित्तेषु वैडूर्यो मणिः, मिश्रेषु तीर्थकर एव विभूषितः, शरीरेष्वौदारिकं मुक्तिगमनयोग्यत्वाद्विशिष्टरूपापत्तेश्च आदिग्रहणात्स्वामित्वकरणाधिकरणेषुसारतायोज्या, तद्यथा-स्वामित्वे गोरसस्य घृतं सारभूतं, करणत्वे मणिसारेण मुकुटेन शोभते राजा, अधिकरणे दनि घृतं जले पद्ममुत्थितमित्यादिगाथार्थः॥भावसारप्रतिपादनायाहनि. [२४१] भावेफलसाहणया फलओ सिद्धी सुहुत्तमवरिट्ठा। साहणय नाणदसणसंजमतवसा तहिं पगयं ॥ वृ. भावे' भावविषये सारे चिन्त्यमाने फलसाधनता सारः फलम्-अर्थक्रियावाप्तिस्तस्य साधनता फलसाधनता-फलार्थमारम्भे प्रवर्तनं ततः फलावाप्तिः प्रधानं, फलतोऽप्यनैकान्तिकानात्यन्तिकरूपात् सांसारिकात्सकाशात्तद्विपर्यस्तं फलं सारः, किं तत् ?- सिद्धिः, किम्भूताऽसौ?-'उत्तमसुखवरिष्ठा उत्तमंचतदात्यन्तिकैकान्तिकानाबाधत्वात्सुखंचउत्तमसुखं तेन वरिष्ठा-वरतमा, तत्साधनानि च गाथाशकलेन दर्शयति ‘साधनकानि' प्रकृष्टोपकारकाणि ज्ञानदर्शनसंयमतपांसि, तस्मिंश्च भावसारे सिध्यवाख्यफलसाधने ज्ञानादिके प्रकृतंज्ञानदर्शनचारित्रेण भावसाररूपेणात्राधिकार इतिगाथार्थः॥ तस्यैव ज्ञानादेः सिद्धयुपायस्य भावसारतां प्रतिपादयन्नाहनि. [२४२] लोगंमिकुसमएसुय कामपरिग्गहकुमग्गलग्गेसुं। सारो हुनाणदंसणतवचरणगुणा हियट्ठाए॥ वृ. 'लोके गृहस्थलोके कुत्सिताः समयाः कुसमयाः तेषुच, किम्भूतेषु?-कामपरिग्रहेण ये कुत्सिता मार्गास्तेषु लग्नेषु, हुर्हेतौ, यस्माल्लोकः कामपरिग्रहाग्रही गृहस्थभावमेव प्रशंसति॥१॥ 'गृहाश्रमसमोधर्मो, न भूतो न भविष्यति । पालयन्ति नराः शूराः, क्लीबाः पाषण्डमाश्रिताः' । गृहाश्रमाधाराश्च सर्वेऽपि पाषण्डिनः इत्येवं महामोहमोहित इच्छामदनकामेषु प्रवर्तते, तथातीर्थिकाअप्यनिरुद्धेन्द्रियप्रसरा द्विरूपकामाभिष्वङ्गिणः इत्यतस्तेषुसारोज्ञानदर्शनतपश्चरणगुणाः, उत्तमसुखवरिष्ठसिद्धिहेतुत्वात्, हिता-सिद्धिस्तदर्थत्वादिति गाथार्थः॥ यतो ज्ञानदर्शनतपश्चरणगुणा हितार्थतया सारस्तस्मात्किं कर्त्तव्यमित्याहनि. [२४३] चइऊणं संकपयंसारपयमिणं दढेण धित्तव्वं । अस्थि जिओ परमपयंजयणाजा रागदोसेहिं॥ वृ. 'त्यकत्वा' प्रोज्झ्य, कं तत् ?- 'शङ्कापदं' किमेतन्मदारब्धमनुष्ठानं निष्फलं स्यादित्येवंम्भूतो विकल्पःशङ्कातस्याः पदं-निमित्तकारणंतच्चाहपोक्तेष्वत्यन्तसूक्ष्मेष्वतीन्द्रियेषु केवलागमग्राहेष्वर्थेषु या संशीतिः-सन्देह इत्येतद्रूपंतच्छङ्कापदं विहाय सारपदं-इदं ज्ञानादिकं tional Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy