________________
२०१
श्रुतस्कन्धः - १, अध्ययनं - ४, उद्देशक:४ भवति-यस्यैवपूर्वबोधिलाभः संवृत्तोभविष्यतिवातत्यैव वर्तमानकाले भवति,येन हिसम्यक्त्वमास्वादितंपुनर्मिथ्यात्वोदयात्तत्प्रच्यवतेतस्यापार्द्धपुद्गलपरावर्तेनापिकालेनावश्यंतत्सद्भावात्, न ह्ययं सम्भवोऽस्ति प्रच्युतस्य सम्यक्तवस्य पुनरसम्भव एवेति, अथवा निरुद्धेन्द्रियोऽपि आदिनस्रोतोगृद्ध इत्युक्तः, तद्विपर्ययभूतस्य त्वतिक्रान्तसुखस्मरणमकुर्वतः आगामि च दिव्याङ्गनाभोगमनभिकाश्तो वर्तमानसुखाभिष्वङ्गोऽपि नैव स्यादित्येतद्दर्शयितुमाह_ 'जस्स नत्थि' इत्यादि, यस्य भोगविपाकवेदिनः पूर्वभुक्तानुस्मृतिनास्ति नापि पाश्चात्यकालभोगाभिलाषिता विद्यते तस्य व्याधिचिकित्सारूपान् भोगान् भावयतो 'मध्ये' वर्तमानकाले कुतो भोगेच्छा स्यात् ?, मोहनीयोपशमानैव स्यादित्यर्थः । यस्यतु त्रिकालविषया भोगेच्छा निवृत्ता स किम्भूतः स्यादित्याह – “से हु' इत्यादि, 'हुः' यस्मादर्थे यस्मानिवृत्तभोगाभिलाषस्तस्मात्स प्रज्ञानवान्-प्रकृष्टं ज्ञानं प्रज्ञानं-जीवाजीवादिपरिच्छेत्त तद्विद्यते यस्यासौ प्रज्ञानवान्, यत एव प्रज्ञानवानत एव बुद्धः-अवगततत्त्वो, यत एवम्भूतोऽत एवाह -
____ 'आरंभोवरए' सावद्यानुष्ठानमारम्भस्तस्मादुपरत आरम्भोपरतः । एतच्चारमभोपरमणं शोभनमिति दर्शयन्नाह –“सम्म'मित्यादि, यदिदं सावद्यारम्भोपरमणं सम्यगेतत्-शोभनमेतत् सम्यक्त्वकार्यत्वाद्वा सम्यक्त्वमेतदित्येवं पश्यत-एवं गृह्णीत यूयमिति । किमित्यारम्भोपरमणं सम्यगिति चेदाह –'जेण' इत्यादि, येन कारणेन सावद्यारम्भप्रवृत्तो बन्धं निगडादिभिः बन्धं कशादिभिः 'घोरं प्राणसंशयरूपं परितापं शारीरमानसं दारुणं असह्यमवाप्नोत्यतआरम्भोपरमणं सम्यग् भूतं कुर्यात्, किं कृत्वेत्याह -
पलिच्छिन्दि' इत्यादि, 'परिच्छिन्द्य' अपनीय, किंतत्? - 'स्रोतः' पापोपादानं,तच्चबाह्य धनधान्यहिरण्यपुत्रकलत्रादिरूपं हिंसाद्याश्रवद्वारात्मकं वा, चशब्दादान्तरं च रागद्वेषात्मकं विषयपिपासारूपं वेति, किंच-'निक्कम्मदंसी'त्यादि, निष्क्रान्तः कर्मणो निष्का -मोक्षःसंवरो वा तं द्रष्टुं शीलमस्येति निष्कर्म्मदर्शी, 'इहे'त्ति संसारे मत्र्येषु मध्ये य एव निष्कर्म्मदर्शी स एव बाह्याभ्यन्तरस्रोतसच्छेत्तेति स्यात् । किमभिसन्ध्य स बाह्याभ्यन्तरसंयोगस्य छेत्ता निष्कर्म्मदर्शी वा भवेत् इत्यत आह -'कम्माणं'इत्यादि, मिथ्यात्वाविरतिप्रमादकषाययोगैः क्रियन्ते-बध्यन्त इति कर्माणि-ज्ञानावरणीयादीनि तेषां सफलत्वं दृष्ट्वा स वा निष्कर्मदर्शी वेदविद्वा कर्मणां फलं दृष्टवा, तेषां च फलं
ज्ञानावरणीयस्यज्ञानावृत्तिःदर्शनावरणस्यदर्शनाच्छादनं वेदनीयस्य विपाकोदयजनिता वेदनेत्यादि, ननु च न सर्वेषां कर्मणां विपाकोदयमिच्छन्ति, प्रदेशानुभवस्यापि सद्भावात्तपसा चक्षयोपपत्तेरित्यतः कथं कर्मणां सफलत्वं?, नैष दोषो, नात्र प्रकारकात्स्न्यमभिप्रेतम्, अपितु द्रव्यकात्स्नर्य, तच्चास्त्येव, तथाहि-यद्यपिप्रतिबन्धव्यक्तिनविपाकोदयस्तथाप्यष्टानामपिकर्मणां सामान्येन सोऽस्त्येवेत्यतः कर्मणां सफलत्वमुपलभ्यते, तस्मात्-कर्मणस्तदुपादानादास्रवाद्वा निश्चयेन याति निर्याति-निर्गच्छति, तत्र विधत्त इतियावत् कोऽसौ ?- 'वेदविद्' वेद्यते सकलं चराचरमनेनेति वेदः- आगमस्तं वेत्तीति वेदवित्, सर्वज्ञोपदेशवर्तीत्यर्थः ।। न केवलस्य ममैवायमभिप्रायः, सर्वेषामेव तीर्थकराणामयमाशय इति दर्शयितुमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org