________________
१४९
श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशक:६ तंपरित्राय मेहावी विइत्ता लोगवंता लोगसन्नं से मइमं परिवमिजासि-त्तिबेमि॥
वृ.ममायितं-मामकंतत्रमतिर्ममायितमतिस्तांयःपरिग्रहविपाकज्ञो जहाति परित्यजति स 'ममायितं' स्वीकृतं परिग्रहं 'जहाति' परित्यजति, इह द्विविधः परिग्रहो-द्रव्यतो भावतश्च, तत्र परिग्रहमतिनिषेधादान्तरो भावपरिग्रहो निषिद्धः, परिग्रहबुद्धिविषयप्रतिषेधाच्च बाह्यो द्रव्यपरिग्रह इति।अथवा काक्वा नीयते, यो हि परिग्रहाध्यवसायकलुषितं ज्ञानं परित्यजतिस एव परमार्थतः सबाह्याभ्यन्तरं परिग्रहं परित्यजति, ततश्चेदमुक्तं भवति-सत्यपि सम्बन्धमात्रे चित्तस्यपरिग्रहकालुष्याभावानगरादिसम्बन्धः पृथ्वीसम्बन्धेऽपिजिनकल्पिकस्येवनिष्परिग्रहतैव, यदि नामैवं ततः किमित्याह-से हु' इत्यादि, यो हि मोक्षकविघ्नहेतोः संसारभ्रमणकारणात् परिग्रहान्निवृत्ताध्यवसायः,हुःअवधारणे, सएवमुनिःटोज्ञानादिकोमोक्षपथोयेन सदृष्टपथः, यदिवा दृष्टभयः-अवगतसप्तप्रकारमयः शरीरादेः परिग्रहात्साक्षात्पारम्पर्येण वा पर्यालोच्यमानं सप्तप्रकारमपि भयमापनीपद्यतइत्यतः परिग्रहपरित्यागेज्ञातभयत्वमवसीयतइति।एतदेवपूर्वोक्तं स्पष्टयितुमाह
'जस्स' इत्यादि, यस्य ममायितं' स्वीकृतंपरिग्रहोनविद्यतेस टभयोमुनिरितिसम्बन्धः, किंच-'त' इत्यादि, 'त' पूर्वव्यावर्णितस्वरूपंपरिग्रहं द्विविधयाऽपिपरिज्ञयापरिज्ञाय मेधावी' ज्ञातज्ञेयो विदित्वा 'लोकं परिग्रहाग्रहयोगविपाकिनमेकेन्द्रियादिप्राणिगणं 'वान्त्वा' उद्गीर्य 'लोकस्य' प्राणिगणस्य संज्ञा दशप्रकारा अतस्तां 'स' इति मुनिः, किंभूतो?- ‘मतिमान्' सदसद्विवेकज्ञः पराक्रमेथाः'संयमानुष्ठानेसमुद्यच्छेः,संयमानुष्ठानोद्योगसम्यग्विदध्याइतियावद्, अथवाऽष्टप्रकारं कारिषड्वर्ग वा विषयकषायान् वा पराक्रमस्वेति, इतिरधिकारसमाप्तौ, वीमीति पूर्ववत् । स एवं संयमानुष्ठाने पराक्रममाणस्त्यक्तपरिग्रहाग्रहयोगो मुनिः किंभूतो भवतीत्याहमू. (१०१) नारइंसहई वीरे, वीरेन सहई रति।
__ जम्हा अविमणे वीरे, तम्हा वीरेन रज्जइ ॥ वृ. तस्य हि त्यक्तगृहगृहिणीधनहिरण्यादिपरिग्रहस्य निष्किञ्चनस्यसंयमानुष्ठानं कुर्वतः साधोः कदाचिन्मोहनीयोदयादरतिराविः स्यात्, तामुत्पन्नां संयमविषयां 'न सहते' न क्षमते, कोऽसौ ?- विशेषेणेरयति-प्रेश्यति अटप्रकारं कारिषड्वर्गं वेति वीरः-शक्तिमान्, स एव वीरोऽसंयमे विषयेषु परिग्रहे वा या रतिरुत्पद्यते तां 'न सहते' न मर्षति, या चारतिः संयमे विषयेषु च रतिस्ताभ्यां विमनीभूतः शब्दादिषुन रज्यति, अतो रत्यरतिपरित्यागान विमनस्को भवति नापिरागमुपयातीतिदर्शयति-यस्मात्त्यक्तरत्यरतिरविमनावीरस्तस्मात्कारणाद्वीरो'न रज्यति' शब्दादिविषयग्रामे नगाऱ्या विदधाति । यत एवं ततः किमित्याहमू. (१०२) सद्दे फासे अहियासमाणे निविंद नंदिइह जीवियस्स।
मुनी मोनं समायाय, धुणे कम्मसरीरगं॥ वृ. यस्माद्वीरो रत्यरती निराकृत्य शब्दादिषु विषयेषु मनोज्ञेषु न रागमुपयाति, नापि दुष्टेषु द्वेषं, तस्माच्छब्दान् स्पर्शाश्च मनोज्ञेतरभेदभिन्नान् ‘अहियासमाणे'त्ति सम्यक् सहमानो निर्विन्द नन्दीत्युत्तरसूत्रेण सम्बन्धः, एतदुक्तं भवति-मनोज्ञान् शब्दान् श्रुत्वा न रागमुपयाति, Jain Education International
For Private & Personal Use Only
www.jainelibrary.org