________________
१४८
आचारागसूत्रम् १/-/२//९९ करोतिमनसाचतत्साधनोपायांश्चिन्तयति, तथाहि-सुखा सन्कृष्यादिकमभिःपृथिवींसमारभते स्नानार्थमुदकं वितापनार्थमग्निं धर्मापनोदार्थं वायुं आहारार्थी वनस्पति त्रसकायं वेत्यसंयतः संयतो वा रससुखार्थी सच्चित्तं लवणवनस्पतिफलादिगृह्णात्येवमन्यदपि यथासंभवमायोज्यं ।स चैवं लालप्यमानः किंभूतो भवतीत्याह-'सएण'इत्यादि, यत्तदुप्तमन्यजन्मनि दुःखतरुकर्मबीजं तदात्मीयं दुःखतरुकार्यमाविर्भावयति, तच्च तेनैव कृतमित्यात्मीयमुच्यते, अतस्तेन स्वकीयेन 'दुःखेन' स्वकृतकर्मोदयजनितेन 'मूढः' परमार्थमजानानो 'विपर्यासमुपैति' सुखार्थी प्राण्युपघातकारणमारम्भमारमते, सुखस्य च विपर्यासो दुःखं तदुपैति, उक्तंच॥१॥ 'दुःखद्विट् सुखलिप्सुर्मोहान्धत्वाददष्टगुणदोषः।
यांयांकरोतिचेष्टांतयातया दुःखमादत्ते" ___ यदिवा मूढो हिताहितप्राप्तिपरिहाररहितोविपर्यासमुपैति-हितमप्यहितबुद्धयाऽधितिष्ठत्यहितंच हितबुद्धयेति, एवं कार्याकार्यपथ्यापथ्यवाच्यावाच्यादिष्वपि विपर्यासोयोज्यः, इदमुक्तं भवति-मोहोऽज्ञानं मोहनीयभेदोवा, तेनोभयप्रकारेणापि मोहेन मूढोऽल्पसुखकृतेतत्तदारभते येन शारीरमानसदुःखव्यसनोपनिपातानामनन्तमपि कालं पात्रतां व्रजतीति । पुनरपि मूढस्यानर्थपरम्परां दर्शयितुमाह-सएण' इत्यादि, स्वकीयेनात्मना कृतेन प्रमादेन-मद्यादिना 'विविध मिति मद्यविषयकषायविकथानिद्राणां स्वभेदग्रहणं, तेन पृथग्-विभिन्नं व्रतं करोति, यदिवा पृथु विस्तीर्ण 'वय' मिति वयन्ति-पर्यटन्ति प्राणिनः स्वकीयेन कर्मणा यस्मिन् सवयःसंसारस्तंप्रकरोति,एकैकस्मिन्काये दीर्घकालावस्थानाद्, यदिवाकारणेकार्योपचारात्स्वकीयेन नानाविधप्रमादकृतेन कर्मणा वयः- अवस्थाविशेषस्तमकेन्द्रियादिकललार्बुदादितदर्जातबालादिव्याधिगृहीतदारिद्यदौर्भाग्यव्यसनोपनिपातादिरूपंप्रकर्षण करोति-विधत्त इति।
तस्मिंश्च संसारेऽवस्थाविशेषे वा प्राणिनः पीडयन्ते इति दर्शयितुमाह
'जंसिमे' इत्यादि, यस्मिन् स्वकृतप्रमादापादितकर्मविपाकजनिते चतुर्गतिकसंसारे एकेन्द्रियाद्यवस्थाविशेषेवा इमे प्रत्यक्षगोचरीभूताः 'प्राणा' इत्यभेदोपचाराप्राणिनः 'प्रव्यथिताः' नानाप्रकारेव्यसनोपनिपातैः पीडिताः,सुखार्थिभिरारम्भप्रवृत्तैर्मोहाद्विपर्यस्तैःप्रमादवद्मिश्चगृहस्थैः पाषण्डिकैर्यत्याभासैश्चेति वा । यदि नामात्रप्रव्यथिताः प्राणिनस्ततः किमित्याह-'पडि' इत्यादि, एतत्संसारचक्रवाले स्वकृतकर्मफलेश्वराणामसुमतांगृहस्थादिभिः परस्परतोवाकर्मविपाकतो वा प्रव्यथनं प्रत्युपेक्ष्य विदितवेद्यः साधुनिश्चयेन नितरां वा नियतं वा क्रियन्ते नानादुःखावस्था जन्तवो येन तन्करणं निकारः-शारीरमानसदुःखोत्पादनं तस्मै नो कर्म कुर्याद, येन प्राणिनां पीडोत्पद्यतेतमारम्भन विदध्यादितिभावार्थः। एवंच सति किं भवतीत्याह- 'एस' इत्यादि, येयं सावद्ययोगनिवृत्तिरेषा परिज्ञा-एतत्तत्त्वतः परिज्ञानं प्रकर्षणोच्येत प्रोच्यते, न पुनः शैलूषस्येव ज्ञानं निवृत्तिफलरहितमिति । एवं द्विविधयाऽपि ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च प्राणिनिकारपरिहारे सति किं भवतीत्याह-'कम्मोवसंती'त्ति कर्मणाम्-अशेषद्वन्द्ववातासकसंसारतरुबीजभूतानामुपशान्तिः-उपशमः, कर्मक्षयःप्राणिनिकारक्रियानिवृत्तेर्भवतीत्युक्तं भवति । अस्य च कर्मक्षयप्रत्यूहस्य प्राणिनिकरणस्य मूलमात्मात्मीयग्रहः, तदपनोदार्थमाह
मू. (१००) जेममाइयमइंजहाइसे चयइममाइयं, सेहुदिट्ठपहे मुनीजस्सनथिममाइयं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org