________________
१४६
आचाराङ्ग सूत्रम् १/-/२/५/९६ अजरामरवक्रियासुप्रवर्त्तन्तइति ।यश्चामरायमाणः कामभोगाभिलाषुकः स किंभूतो भवतीत्याह'अट्ट' इत्यादि, अतिः-शारीरमानसीपीडातत्रभवआर्तस्तमार्त्तममरायमाणंकामार्थमहाश्रद्धावन्तं 'प्रेक्ष्य' दृष्ट्वा पर्यालोच्य वा कामार्थयोर्न मनो विधेयं इति, पुनरमरायमाणभोगश्रद्धावतः स्वरूपमुच्यते -'अपरिण्णाए'इत्यादि, कामस्वरूपं तद्विपाकं वा अपरिज्ञाय तत्र दत्तावधानः कामस्वरूपापरिज्ञया वा 'क्रन्दते' भोगेष्वप्राप्तनष्टेषु काङ्क्षशोकावनुभवतीति, उक्तंच॥१॥ “चिन्ता गते भवति साध्वसमन्तिकस्थे, मुक्ते तु तप्तिरधिका रमितेऽप्यतप्तिः।
द्वेषोऽन्यभाजि वशवर्तिनि दग्धमानः, प्राप्तिः सुखस्य दयिते न कथञ्चिदस्ति" इत्यादि । तदेवमनेकधा कामविपाकमुपदय उपसंहरति
मू. (९७) से तंजाणहजमहं बेमि, तेइच्छं पंडिए पवयमाणे से हंता छित्ता भित्तालुंपइत्ता विलुपइत्ता उद्दवइत्ता, अकडं करिस्सामित्ति मन्नमाणे, जस्सवियणं करेइ, अलं बालस्स संगेणं, जे वा से कारइ बाले, न एवं अनगारस्स जायइ।
वृ. 'से'त्तितदर्थे तदपि हेत्वर्थे, यस्मात्कामा दुःखैकहेतवः तस्मात्तजानीत यदहं ब्रवीमि, मदुपदेशं कामपरित्यागविषयं कर्णे कुरुतेति भावार्थः ननु च कामनिग्रहोऽत्र चिकीर्षितः, स चान्योपदेशादपि सिद्धत्येवेत्येतदाशङ्कयाह-'तेइच्छं' इत्यादि, कामचिकित्सां ‘पण्डितः' पण्डिताभिमानीप्रवदन्नपरव्याधिचिकित्सामिवोपदिशनपरः-तीर्थिको जीवोपमर्देवर्ततइति, आह'सेहंता' इत्यादि, 'स' इत्यविदिततत्त्वः कामचिकित्सोपदेशकःप्राणिनां हन्ता दण्डादिभिःछेत्ता कर्णादीनांभेत्ताशूलादिभिः लुम्पयिता ग्रन्थिच्छेदनादिनाविलुम्पयिताअवस्कन्दादिनाअपद्रावयिता प्राणव्यपरोपणादिना, नान्यथा कामचिकित्सा व्याधिचिकित्सा वा अपरमार्थदृशां सम्पद्यते,
किंच-'अकृतं यदपरेण न कृतं कामचिकित्सनं व्याधिचिकित्सनंवा तदहं करिष्य इत्येवं मन्यमानः हननादिकाः क्रियाः करोति, ताभिश्च कर्मबन्धः, अतो य एवंभूत उपदिशति यस्याप्यपदिश्यते उभयोरप्येतयोरपथ्यत्वादकार्यमिति, आह च-'जस्सवि य णं' इत्यादि, यस्याप्यसावेवंभूतां चिकित्सांकरोति, न केवलंस्वस्येत्यपिशब्दार्थः, तयोर्द्वयोरपिकर्तु; कारयितुश्च हननादिकाः क्रियाः, अतो 'अलं' पर्याप्तं 'बालस्य' अज्ञस्य सङ्गेन' कर्मबन्धहेतुना कर्तुरिति, योऽप्येतत् कारयति 'बालः' अज्ञस्तस्याप्यलमिति सण्टङ्कः, एतच्चैवम्भूतमुपदेशदानं विधानं वाऽवगततत्त्वस्य न भवतीत्याह-'न एवं' इत्यादि, एवम्भूतं प्राण्युपमर्देन चिकित्सोपदेशदानं करणं वा 'अनगारस्य साधोः ज्ञातंसंसारस्वभावस्य न जायते-न कल्पते, ये तु कामचिकित्सां व्याधिचिकित्सां वा जीवोपमर्दैन प्रतिपादयन्ति ते बालाः-अविज्ञाततत्त्वाः, तेषां वचनमवधीरणीयमेवेति भावार्थः । इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ।
अध्ययनं-२, उद्देशकः-५-समाप्तः
अध्ययन-२, उद्देशकः-६:वृ.उक्तः पञ्चमोद्देशकः, साम्प्रतंषष्ठ आरभ्यते, अस्यचायमभिसम्बन्धः-संयमदेहयात्रार्थ लोकमनुसरता साधुना लोकेममत्वंन कर्त्तव्यमित्युद्देशार्थाधिकारोऽभिहितः,सोऽधुना प्रतिपाद्यतेअस्य चानन्तरसूत्रसम्बन्धो वाच्यो 'नैवमनगारस्य जायत' इत्यभिहितम्, एतदेवात्रापि प्रतिपिपादयिषुराह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org