________________
स्तुति तरंगिणी विशुद्धभाववेलां य: सच्चे समुद्रसंनिभे । विधत्ते चन्द्रतुल्यं तं, चन्द्रप्रभप्रभु स्तुवे ॥८॥ संसारघोरकान्तारो-तारणे दर्शकं विधेः । प्रणमामि दिवानक्तं, विधिज्ञं सुविधीश्वरम् ॥९॥ सलिलं शीतलं नैव, मलयजो न शीतलः । भवदाहोपशान्त्यै बै, शीतलाहश्च शीतलः ॥१०॥ वसुघावाटिकायां ये, सर्वजीवपशूपमाः । गोपयति महागोप--स्तान्श्रेयांसो जिनेश्वरः ॥११॥ द्वादशेऽथ गुणस्थाने, मोहो नश्यति सर्वथा । श्रीद्वादशत्रिकालज्ञ!, मोहं हर मनोहर ! ॥१२॥ त्रयोदशगुणस्थाने, जायते केवलं सदा । त्रयोदश! दयां कृत्वा, विमल ! केवलं दिश ॥१३॥ मेरुणा तुल्यते नैव, नाप्यथ सागरेण च । अनंतनाथकारुण्यं, परोपकृतिकारणम् ॥१४॥ सिद्धा भवन्ति भव्यां चै, पंचदशविधानतः । पंचदशाप्तधर्मस्य-सेवे सिद्धि प्रयच्छ मे ॥१५॥ चित्रं च मृगलक्ष्माऽपि, शांतिलाञ्छनशून्यकः । राहुग्रहेण न ग्रस्तः, प्रकाशते दिवानिशम् ॥१६॥ पद्मासनस्थितकुंथुः, त्यक्तपद्मासनः प्रभुः । सप्तदशसुतीर्थेशः, विजयते सदा भुवि ॥१७॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org