________________
आत्मकमललब्धि - भुवन तिलक - भद्रंकरस्ररि-गुरुभ्यो नमः पं. श्री वीरसेनवि, गणीवर प्रणीताः
श्री - चतुर्विंशति - जिन - स्तुतयः
( अनुष्टुभ् )
प्रणौमि परमात्मानं, प्रथमं पुरुषोत्तमम् । पुण्यपुंजप्रतिष्ठानं, पीयूषपायिपूजितम् विश्वविश्वविधातारं विबुधेश - विषेवितम् । वन्देऽजितं विभुश्रेष्ठं, वरविद्याविशारदम् ॥२॥ कृपापर्जन्यसंनीतो, यः सुकालो निजात्मनि । धर्मदुष्काल विक्लान्ते, तं संस्तवीमि संभवम् ॥३॥ कषायतापतस्तप्ते, ग्रीष्मे भीष्मे कलौ युगे । जयति शीतदो लोके, चाभिनन्दनचन्दनः ॥४॥ ये भवकानने संति, मत्सरस्मरतस्कराः । तेभ्यः सत्सार्थवाह ! त्वं, रक्ष भो सुमतिप्रभो ! ॥५५॥ निर्लेपभावसंयुक्त-माईन्त्यसौरभान्वितम् ।
पद्मप
सुपद्माभं, नौम्यनुत्तरयोगिनम् ॥६॥
मदमदन - मत्स्यौघे, पापपाठीन - पङ्किले | निर्यामकः सुपार्श्वशः, पातु संसारसागरे ॥७॥
Jain Education International
॥१॥
For Private & Personal Use Only
www.jainelibrary.org