________________
स्तुति तरगिणी विश्वस्य नेता त्रिशलाजवीरः, सिद्धार्थजः सिद्धसुमुक्तितीरः ॥२४॥ (श्री सीमंधरस्वामी तथा ज्ञाननी स्तुति) सीमंधरं भावजगन्महेशं, नमाम्यहं पापभवापहेशम् । श्रुतं च वन्दे स्वपरप्रकाशं, द्रव्यादिभावं हतमोहपाशम् ॥२५॥
(प्रशस्तिः ) (अनुष्टुभ् ) कवीशलब्धिसूरीश-पट्टाम्बर-ग्रहेश्वरः । भुवनतिलकाख्योऽसौ, जयति सूरि-शेखरः ॥२६॥ तत्पट्टधारिणा चेयं, चतुर्विंशति-संस्तुतिः । तीर्थकृतां हि संदृब्धा, भद्रंकरेण सरिणा ॥२७॥ निधिबहिनिधीन्दौ च, काले विक्रमवत्सरे । अगवरीनगाँ च, राजस्थाने स्थितेन वै ॥२८॥
(युग्मम् )
Jain Education International
al
For Private & Personal Use Only
www.jainelibrary.org