________________
स्तुति तरंगिणी पूजितांहिद्वयी मुक्त्यै कान्ताराजीवमालया। सुमते! तव लूनांहः-कान्ताराजीव मालया ॥५॥ पद्मप्रमः सुदृष्टीनां भूरिशोभा-तपोदयः । हन्यात्तमांसि पूषेव भूरिशोमातपोदयः ॥६॥ सुपार्श्व! त्वच्छूतं श्रुत्वा दर्प-कोपक्रमानलम् । मुंचन्ति जंतवः शान्ता दर्पकोपक्रमानलम् ॥७॥ भवाँश्चन्द्रप्रमेन्द्रेण, यैरभाजि समुनतः । तैः कर्मपादपः प्राप्तो यैरभाजि समुनतः ॥८॥ सुविधे! त्वं विधि प्राप्य-प्रमाद्यन्त्यसमाहिताः । ये ते श्रेयः श्रियं श्रस्त-प्रमाद्यन्त्य-समाहिताः ॥९॥ सेवन्ते शीतल ! त्वां ये देव ! संपन्न केवलम् । अपि मुक्तिर्भवेत्तेषां देव-संपन्न-केवलम् ॥१०॥ श्रेयांस-स्तमुभाजां वै परमोक्ष-गतिर्भवान् । अनन्तान् हन्त्व-विश्रांतं परमोक्षगतिर्भवान् ॥११॥ बासुपूज्य ! नवस्वर्ण-नीरजारूढ-सत्क्रमः । हर वं विहरन्मोहं नीरजा रूढ-सत्क्रमः ॥१२॥ विमल ! त्वां प्रति ये स्व-रंजयंति मनोमवम् । अपि दुर्जयमुच्चैस्ते ऽरं जयंति मनो-भवम् ॥१३॥ जग्मिवांसमनंत! त्वां नमस्यंति महापदम् । ये ते विश्वत्रयी-लक्ष्मी नमस्यंति महापदम् ॥१४॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org