________________
स्तुति तरंगिणी
(वंशस्थ छन्दः) शक्तिर्यदीया सुमनो हिताऽऽशया, स्वामित्वसाग गिरिभिद् बभूव वै । स ब्रह्मचारी हृदि सर्वमंगलाऽऽ,नंदप्रद स्तिष्ठतु वः शिवात्मजः ॥२३॥
(उपजाति) क्षमाभृतामाऽऽपदधीश्वर स्वं, यो ज्येष्ठपादोहितकल्पसाल: । श्रीपाच आनंदकृदस्तु जात,रूपच्छविः सोऽङ्गिषु मन्दरागः ॥२४॥ द्वै-मातुरोऽर्हन् विशदेकदन्तः, प्रत्यूहहृत् सोऽस्तु सुखी वृषस्थः । धेत्ते स्म सत्कार्यभरं नराणां, निरंतगयं गणनायको यः ॥२५॥ प्रियं गुणाऽऽयं बहुधा-महेलं', समस्तकामं सुमनोऽभिरामम् । सार्थ सदाऽऽनंदनमाऽऽश्रयाम-, स्तापच्छिदे सार्वमुदारभागम् ॥२६॥
1. गणपतिः । २. ददौ । ३. स्तुति । ४. इन्द्रवदनम् ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org