________________
संस्कृत विभाग-२
आश्चर्यकारिगुणरत्नखनि महान्तं, मल्लिप्रभुं जिनवरं प्रणमामि नित्यम् ॥१९॥ श्रेयः कलत्रकरपीडनकारणाय, श्रेयस्कृते रचितधर्मनिकेतनाय । विश्वाद्भुताय भविजन्तुशिवराय, नित्यं नमो भगवते मुनिसुव्रताय ॥२०॥ योगात्मकाय विमलाय मुनीश्वराय, ब्रह्मात्मने कुशलधर्मविकासकाय । विश्वेश्वराय नमिनाथ-जिनेश्वराय, नित्यं नमो भगवते हतमन्मथाय ॥२१॥ विश्वेश्वरोऽसि गुणभृत्पुरुषोत्तमोऽसि, बुद्धोऽसि नाथ ! भवसागरतारकोऽसि । अहंस्त्वमेव सुनियामकनायकोऽसि, श्रीनेमिनाथ ! शरणागतवत्सलोऽसि ॥२२॥ भक्तेप्सितार्थपरिपूरणकामधेनु, मिथ्यानिशा तिमिरनाशनसौम्यचन्द्रम् । पद्मावतीधरणवासववन्दिताघ्रि, श्रीपार्श्वनाथमनिशं परिपूजयामि ॥२३॥ सिद्धार्थराजकुलविष्णुपदग्रहेशं, ज्ञानोज्ज्वलं सुरन रेश्वरसेव्यपादम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org