________________
स्तुति तरंगिणी पारंगतं हतमदं विमलं सुबोधं, वन्दे जिनेश्वरमनन्तमगम्यमीड्यम् ॥१४॥ नृणां मनोगतविकार-भराद्रिवज्र, संसाररोगसुविनाशनभाववैद्यम् । प्रौढप्रतापसुमगन्धितविश्वविश्वं, वन्दे सदा विमलधर्मदधर्मनाथम्
॥१५॥ संसारवतिशमनार्थसुनव्यमेघ, भक्तार्थपूरणसमर्थसुपर्ववृक्षम् । श्रीविश्वसेनतनयं समविश्वपूज्यं, श्रीशान्तिनाथममरेशनतं नमामि ॥१६॥ वन्दारुदेवनरनाथनमस्यिताघि, श्रीजैनशासनकर शिवशङ्करं वै । भव्याङ्गिनां हितकरं तरणिं भवाब्धी, . श्रीकुन्थुनाथमभयं जिनपं प्रवन्दे ॥१७॥ श्रेष्ठ विशिष्टशरणं शरणागतानां, मोक्षकमार्गशुभमङ्गलदिव्यदीपम् । भव्यबजाजपरिबोधनमव्यसूर्य, वन्देऽरनाथपुरुषोत्तममीशमुख्यम् ॥१८॥ देवेन्द्रराजिपरिराजितपार्श्वदेश, सदृष्टिचिच्चरणभूषण-दीप्यमानम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org