________________
संस्कृत विभाग-२
३२९ संसारगहबरमहाव्यथिताङ्गिरक्षं, श्रेयोनिधि सुविधिना सुविधि स्तुवेऽहम् ॥९॥ मिथ्यात्वरात्रिरजनीश्वर ! देवदेव !, पापव्रजक्षितिरुहाशनिदिव्यतेजः! । शश्वद् विनष्टवृजिनाष्टकदोषपाश !, श्रीशीतल ! स्वमिह शैत्यकरः प्रभूयाः ॥१०॥ सौम्यं सुलब्धिकरुणानिलयं जिनेन्द्र, ज्ञानाद्यनन्तगुणिनं गतसङ्गमीशम् । देवेन्द्रवृन्दपरिसंस्तुतकीर्तिगाथ, श्रेयांसनाथमनघं वरदं स्तवीमि ॥११॥ वास्तोष्पतिस्तवनगोचरधर्ममार्ग, भद्रालयं विशदभव्यविकासहेतुम् । नाथं सदाऽशरणरक्षणबद्धकक्ष, वन्दे जिनेशमनिशं प्रभुवासुपूज्यम् ॥१२॥ भ्रान्त्वा भवेषु विविधेषु महाऽवटेषु, सोढं मया प्रचुरदुःखमनन्तकालम् । मत्वा भवन्तमनिशं भवभावनाशं, त्राणं ततो विमलनाथ ! तव प्रपद्ये ॥१३॥ विद्यालयं विगतदोषमनन्तरूपं, धर्मावतारममरं सुभगं महेशम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org