________________
३२८
स्तुति तरंगिणी लोके पदार्थपरिभासनदिव्यभानु, वन्देऽभिनन्दनविभुं भविनां शरण्यम् ॥४॥ स्फूर्जसुधांशुविकसद् विशदांशुवक्त्रं, सङ्कल्पकल्पतरुमात्मविशुद्धिगङ्गम् । श्रेयस्करं सुमतिदं सुमतिं स्मरामि, संसार-वस्तु-विषयव्रजदर्शिनं तम् ॥६॥ नि:सङ्ग-मिद्धमरुजं शरणं वरेण्यं, दुःखानलैकशमनेऽनघनीरवाहम् । विश्वातिशायिशशिनिर्मलकीर्तिवाहं, पद्मप्रभं प्रतिदिनं प्रणमामि भक्त्या ॥६॥ गङ्गाप्रवाहसम-निर्मलचित्प्रवाहं, चारित्ररत्नविमलातुलवैभवाद्यम् । विश्वेश्वरं भवसमुद्रतरीसमानं, वन्दे विषादरहितं च सुपार्श्वनाथम् ॥७॥ कारुण्यशान्तिपरमामृतवाधिचन्द्र, श्रीलक्ष्मणात्मजमनन्तगुणाभिरामम् । रङ्गतरङ्गशमदं हतकामताप, चन्द्रप्रभं प्रतिदिनं शरणं प्रपद्ये ॥८॥ प्रौढप्रभोज्ज्वलितभावुकभक्तवृन्दं, माङ्गल्यकेलिभवनं शुभदं महेशम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org