________________
संस्कृत विभाग-२
वृन्दारकप्रकरवन्दितपादपद्म, पद्माङ्गजं विमलकेवलबोधपद्मम् । श्रीसुव्रतं व्रतततिव्रततीपयोदं, सिद्धिप्रसिद्धिवनितापतिमचयामि ॥२०॥ सत्तापनीय-कमनीय-रुचि-प्रपञ्च, पश्चेषु-वारणनिवारण-पञ्चवक्त्रम् । श्रीमन्नामि नमदमर्त्यपनि प्रतीत.-, संख्याव्यतीतगुणगेहमहं महामि ॥२१॥ जातः समुद्र विजयानतनैक-नाकि-, . व्रातः समुद्रविजयात्तगभीरिम-श्रीः । कन्दर्प-दर्पपरिणाशशिवः शिवासूः, शैवं शिवं वितनुतामतनुप्रतापः ॥२२॥ स्कारस्फुरत्फणिफणामणि-दीप्त-दीप्तिचित्रीयित-त्रिजगतीजनचित्तवृत्तिः । श्रीअश्वसेनतनयः श्रितयक्षपार्श्वः, पार्श्वः श्रिये भवतु वः सुरसेव्यपार्श्वः ॥२३॥ श्रीभारतावनिविभूषण-वद्धमानः, शीतांशुशुभ्रयशसापरिवर्द्धमानः । कैवल्यबोधकमलाश्रयवर्द्धमानः, कल्याणकन्दजलदोऽवतु वर्द्धमानः ॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org